Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
५३८-५३९ ]
पाठक श्रीजयसोमविरचित
८७
व्याख्या – सुकृतस्य पुण्यस्य अनुमोदनातः, साधु कृतं तीर्थयात्रादीति प्रशंसनाद् यत्पुण्यम्, मयका मया, अर्जित - मुत्पादितम्, तेन पुण्येन, अखिलोऽपि समस्तोऽपि लोकः सुखी भवतु । च पुनर्धर्मनिरतो धर्मनिष्ठो भवत्विति । स ह मनोभिप्राय ईदृश एव भवति । यतस्ते चिन्तयन्ति -
‘शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ ५३७ साहिश्रीमदकब्बर - राजदिनादखिललोक सुखहेतोः । अष्टत्रिंशे वर्षे लाभकृते लाभपुरनगरे ॥ ५३८ नन्द्याद् वंशावली ग्रन्थो ग्रथितोऽयं प्रमोदकृत् । आचन्द्रार्क शुभोदर्क सत्सम्पर्क च वर्द्धयन् ॥ ५३९ - युग्मम् ।
॥ इति मन्त्रिकर्मचन्द्रवंशावलीप्रबन्धः समाप्तः ॥
व्याख्या - साहिश्रीमद कब्बरराज्यदिनात् पातसाहि श्री अकबरस्य साम्राज्यप्राप्तिदिवसाद, अष्टत्रिंशे वर्षे, लाभपुर- 10 नगरे, अयं श्रीमन्त्रिराजवंशावलीवर्णनलक्षणो प्रन्थो लाभकृते लाभार्थम् । कृत इत्यव्ययं तादर्थ्ये । प्रथितः सन्दृब्धः सन् आचन्द्रार्क यावच्चन्द्ररवी तावन्नन्द्यान्नन्दतु समृद्धिमाप्नोतु । आशिषि रूपम् । किंविशिष्टात् साहिश्रीमदकब्बरराज्यदिनाद् ? अखिलानां समस्तानां सुखहेतोः सुखकारणात् । किम्भूतो ग्रन्थ: : प्रमोदं श्रोतॄणां हर्षं करोतीति प्रमोदकृत् । पुनः किम्भूतः ? शुभं श्रेय एवोदर्क आयतिभवं भविष्यत्कालजातं फलं शुभोदर्कस्तम् । च पुनः सत्सम्पर्क शोभनाभिधेयपरिज्ञानसंयोगमात्मनि वर्धयन् पल्लवयन् ॥ ५३८-५३९
Jain Education International
॥ इति श्रीक्षेमशाखायां वाचनाचार्य श्री प्रमोदमाणिक्यगणि शिष्यरत्न
श्रीजयसोमोपाध्याय शिष्यवाचनाचार्य श्रीगुणविनयैः मन्त्रिराज श्री कर्मचन्द्रवंशावली वृत्तिः सम्पूर्णा च ॥
5
For Private & Personal Use Only
15
www.jainelibrary.org

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122