Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
कर्मचन्द्रवंशावलीप्रबन्ध ।
[ ५३२ - ५३७
प्राथमकल्पिकानां शैक्षाणां मतिवैभवहेतोर्बुद्धिव्यापकता निमित्तम्, घीसखस्य मत्रिणः श्रीकर्मचन्द्रस्य, वंशावली [ वंश ] वर्णना विहिता कृता । प्रथमकल्प आधारम्भः प्रयोजनमस्य प्राथमकल्पिकः । 'विभुः प्रभौ व्यापके शङ्करे नित्ये' विभोर्भावो वैभवम् । भावेऽण् ॥ ५३० -५३१
अथ कविः स्वकृतग्रन्थे न्यूनाधिककथनदोषमपाकुर्वन्नाह -
८६
यदधिकमत्राभिहितं न्यूनं वा वर्णितं मया विहितात् । तत्र मनागपि नागो यस्मादन्योक्तमिह लिखितम् ॥ ५३२
व्याख्या - अत्र ग्रन्थे, मया ग्रन्थकर्त्री, विहितात् पूर्वजैर्मन्त्रिराजेन वा कृतात् कार्याद् यदधिकमर्गलमभिहितं कथितम्, वाऽथवा, न्यूनं स्तोकं वर्णितं स्तुतम्, तैः कृतं बहु कथितमल्पमित्यर्थः । तत्र न्यूनाधिकत्वे मम मनागपीषदप्यल्पमपि न आगोsपराधः । यस्माद्धेतोरिह ग्रन्थे अन्येन अपरेणोक्तं कथितमन्योक्तं लिखितं मया । खमया न लिखितं किन्तु परेण 10 यथैवोक्तं तथाऽलेखि । ततो ममापराधो न कोऽपि शङ्खयः ॥ ५३२
न्यूनाधिककथने कारणमाह
रक्तमतिर्वदतितरां यस्मादधिकं कृतादपि प्रायः ।
द्विष्टः कृतमपि सकलं न वदति यदपलपनाकुलितः ॥ ५३३
व्याख्या - यस्माद्धेतोः, प्रायो बाहुल्येन, रक्तमतिः स्नेहलः पुमान्, कृतादपि विहितादप्यर्थाच्छुभकार्यादधिकं " वदतितरामतिशयेन ब्रूते । प्रायो बाहुल्येऽव्ययम् । द्विष्टो द्वेषी कृतमप्यर्थाच्छुभं कार्यं सकलं समस्तं न वदति न कथयति । कुतः ? यद्यस्माद्धेतोरपलपनेनापलापेन निह्नवेन आकुलितो व्यग्रः स च द्विष्टत्वात् सन्तमपि गुणमपह्नुते ॥ ५३३ पूर्वजानामदृष्टत्वाद् रागद्वेषौ न तेषु मे ।
दृष्टानां तु यथादृष्टं वर्णना विदधे मया ॥ ५३४
व्याख्या - पूर्वजानां श्रीसङ्ग्राममन्त्रिणः सकाशात् पूर्वोत्पन्नानां सागरराजादीनाम्, अदृष्टत्वाद् अनवलोकितत्वात्, 20 तेषु सागरादिषु, मे मम, राग-द्वेषौ न । दृष्टानां तु श्रीसङ्ग्राममत्र्यादीनां यथादृष्टं दृष्टं वीक्षितमनतिक्रम्य यथादृष्टं वर्णना स्तुतिर्मया विदधे कृता । यादृशा दृशा तेषां गुणा दृष्टा इष्टास्तादृशाऽन्तर्दृशा विमृश्य लिखिता इति भावः ॥ ५३४
Jain Education International
वंशावली वाचकपुण्यसारमुखाद् यथाऽश्रावि तथा विविच्य । अस्माभिरप्यादरसारचित्तैर्लिवीकृतेयं कृतिनां सुखाय ॥ ५३५
व्याख्या - इयं वंशावली, वाचकपुण्यसारमुखाच्छ्रीमन्त्रिराजकथितवाचक पुण्यसाराननाद् यथा अश्रावि, तथाऽस्मा
” भिरप्यादरसारचित्तैः सादरैर्भूत्वा, विविच्य विवेचनं कृत्वा, कृतिनां विचक्षणानाम्, सुखाय सुखहेतवे, लिवीकृता लिखिता ॥५३५
यद् राभस्यात् प्रमादाद् वा रसिकत्वेन वा मया ।
न्यूनं तथाऽधिकं जातात् कृतं तद्दुष्कृतं मृषा ॥ ५३६
व्याख्या - रभसो वेगस्तद्भावो रामस्यं तस्माद् ग्रन्थकरणोत्सुक्यादित्यर्थः । ' रभसो वेगहर्षयोः' इत्यनेकार्थः । वा अथवा, प्रमादादनवधानाद्वा, अथवा रसिकत्वेन व्याख्यानरसाकुलितत्वेन, रसिको हि रसमेवोद्भावयति, न न्यूनाधिककथन3. जनितापशब्दादिकमपेक्षते । यदुक्तम् -
'गणयन्ति नापशब्द, न वृत्तभङ्गं क्षयं च नार्थस्य । रसिकत्वेनाऽऽकुलिता, वेश्यापतयश्च कवयश्च ॥'
मया जातादुत्पन्नान्यूनं तथाऽधिकं कृतं तन्मृषा मिथ्या दुष्कृतम् । 'मृषा मिथ्याऽनृते' ॥ ५३६
सुकृतानुमोदनातो यदर्जितं पुण्यमद्भुतं मयका । तेनाखिलोsपि लोको भवतु सुखी धर्मनिरतश्च ॥ ५३७
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122