Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
[वृत्तिकृत्प्रशस्तिः।]
श्रीगुरुराजकृतानां श्लोकानामिव शुभार्थघटितानाम् । पुण्यानां श्लोकानां काऽपि व्याख्या मया विदधे ॥ १ न च दोषलवो ग्राह्योऽनुगृह्य मे तत्र यद्विमर्शकृतौ । व्यामोहः सुधियामपि का गणना मयि वराकेऽत्र ॥ २ गम्भीरार्थानामपि वृत्तानां यद्विचारणे प्रगुणा । मन्दाऽपि मन्मतिरभूत् , सा महिमा श्रीगुरोर्जेया ॥ ३ श्रीकर्मचन्द्रमन्त्री धन्यो यस्याद्भुता गुणश्रेणिः। स्वमुखेन श्रीगुरुभिर्व्याख्याता दक्षतानिधिभिः ॥ ४ रस-बाण-दर्शनेन्दु-प्रमिते वर्षे वलक्षमधुपक्षे । विक्रमनृपतोऽष्टम्यां शनिवारे पुष्यनक्षत्रे ॥ ५ श्रीतोसामपुरे वरवाञ्छितदानप्रधानसुरवृक्षे । श्रीमत्रिराजकारितजिनकुशलस्तूपकृतरक्षे ॥ ६ श्रीकर्मचन्द्रराजाग्रहेण सदनुग्रहेण कुशलगुरोः । कुशलार्थसार्थसम्पादनाद्यथार्थाभिधस्य गुरोः ॥ ७ श्रीजयसोमगुरूणां साहिसभालब्धविजयकमलानाम् । शिष्येण वाचकश्रीगुणविनयेनैक्ष्य सद्ग्रन्थान् ॥ ८ रचिता निचिता सूक्तैर्मणिखचिता मुद्रिकैव हैमीयम् । सद्वर्णा सगुणाऽपि च वृत्तिर्मान्या बुधैर्बाढम् ॥ ९
॥ ग्रन्थाग्रं ३१५१, अक्षर १९॥
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122