SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [वृत्तिकृत्प्रशस्तिः।] श्रीगुरुराजकृतानां श्लोकानामिव शुभार्थघटितानाम् । पुण्यानां श्लोकानां काऽपि व्याख्या मया विदधे ॥ १ न च दोषलवो ग्राह्योऽनुगृह्य मे तत्र यद्विमर्शकृतौ । व्यामोहः सुधियामपि का गणना मयि वराकेऽत्र ॥ २ गम्भीरार्थानामपि वृत्तानां यद्विचारणे प्रगुणा । मन्दाऽपि मन्मतिरभूत् , सा महिमा श्रीगुरोर्जेया ॥ ३ श्रीकर्मचन्द्रमन्त्री धन्यो यस्याद्भुता गुणश्रेणिः। स्वमुखेन श्रीगुरुभिर्व्याख्याता दक्षतानिधिभिः ॥ ४ रस-बाण-दर्शनेन्दु-प्रमिते वर्षे वलक्षमधुपक्षे । विक्रमनृपतोऽष्टम्यां शनिवारे पुष्यनक्षत्रे ॥ ५ श्रीतोसामपुरे वरवाञ्छितदानप्रधानसुरवृक्षे । श्रीमत्रिराजकारितजिनकुशलस्तूपकृतरक्षे ॥ ६ श्रीकर्मचन्द्रराजाग्रहेण सदनुग्रहेण कुशलगुरोः । कुशलार्थसार्थसम्पादनाद्यथार्थाभिधस्य गुरोः ॥ ७ श्रीजयसोमगुरूणां साहिसभालब्धविजयकमलानाम् । शिष्येण वाचकश्रीगुणविनयेनैक्ष्य सद्ग्रन्थान् ॥ ८ रचिता निचिता सूक्तैर्मणिखचिता मुद्रिकैव हैमीयम् । सद्वर्णा सगुणाऽपि च वृत्तिर्मान्या बुधैर्बाढम् ॥ ९ ॥ ग्रन्थाग्रं ३१५१, अक्षर १९॥ www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy