SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ५३८-५३९ ] पाठक श्रीजयसोमविरचित ८७ व्याख्या – सुकृतस्य पुण्यस्य अनुमोदनातः, साधु कृतं तीर्थयात्रादीति प्रशंसनाद् यत्पुण्यम्, मयका मया, अर्जित - मुत्पादितम्, तेन पुण्येन, अखिलोऽपि समस्तोऽपि लोकः सुखी भवतु । च पुनर्धर्मनिरतो धर्मनिष्ठो भवत्विति । स ह मनोभिप्राय ईदृश एव भवति । यतस्ते चिन्तयन्ति - ‘शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥ ५३७ साहिश्रीमदकब्बर - राजदिनादखिललोक सुखहेतोः । अष्टत्रिंशे वर्षे लाभकृते लाभपुरनगरे ॥ ५३८ नन्द्याद् वंशावली ग्रन्थो ग्रथितोऽयं प्रमोदकृत् । आचन्द्रार्क शुभोदर्क सत्सम्पर्क च वर्द्धयन् ॥ ५३९ - युग्मम् । ॥ इति मन्त्रिकर्मचन्द्रवंशावलीप्रबन्धः समाप्तः ॥ व्याख्या - साहिश्रीमद कब्बरराज्यदिनात् पातसाहि श्री अकबरस्य साम्राज्यप्राप्तिदिवसाद, अष्टत्रिंशे वर्षे, लाभपुर- 10 नगरे, अयं श्रीमन्त्रिराजवंशावलीवर्णनलक्षणो प्रन्थो लाभकृते लाभार्थम् । कृत इत्यव्ययं तादर्थ्ये । प्रथितः सन्दृब्धः सन् आचन्द्रार्क यावच्चन्द्ररवी तावन्नन्द्यान्नन्दतु समृद्धिमाप्नोतु । आशिषि रूपम् । किंविशिष्टात् साहिश्रीमदकब्बरराज्यदिनाद् ? अखिलानां समस्तानां सुखहेतोः सुखकारणात् । किम्भूतो ग्रन्थ: : प्रमोदं श्रोतॄणां हर्षं करोतीति प्रमोदकृत् । पुनः किम्भूतः ? शुभं श्रेय एवोदर्क आयतिभवं भविष्यत्कालजातं फलं शुभोदर्कस्तम् । च पुनः सत्सम्पर्क शोभनाभिधेयपरिज्ञानसंयोगमात्मनि वर्धयन् पल्लवयन् ॥ ५३८-५३९ Jain Education International ॥ इति श्रीक्षेमशाखायां वाचनाचार्य श्री प्रमोदमाणिक्यगणि शिष्यरत्न श्रीजयसोमोपाध्याय शिष्यवाचनाचार्य श्रीगुणविनयैः मन्त्रिराज श्री कर्मचन्द्रवंशावली वृत्तिः सम्पूर्णा च ॥ 5 For Private & Personal Use Only 15 www.jainelibrary.org
SR No.002797
Book TitleMantri Karmachand Vanshavali Prabandh
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & History
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy