Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 87
________________ मत्रिकर्मचन्द्रवंशावलीप्रबन्ध । [४९४-४९९ पुण्यात्मना यथैकेन शशिना शोभितं नमः। पुण्यात्मना तथाऽनेन मत्रिणा शोभितं कुलम् ॥ ४९४ व्याख्या-यथैकेन पुण्यात्मना सुन्दरस्वभावेन शशिना चन्द्रेण, नभ आकाशं शोभितं शोभा प्रापितम्, तथेति सादृश्ये, तथाऽनेन मन्त्रिणा पुण्यात्मना पवित्रचित्तेन, कुलं निजान्वयः, शोभितमुत्कृष्टतां नीतम् । ___'पुण्यं तु सुन्दरे सुकृते पावने धर्मे ।' 'आत्मा चित्ते धृतौ यत्ने धिषणायां कलेवरे । परमात्मनि जीवेऽर्के हुताशनसमीरयोः ।। 'स्वभावे' इत्यनेकार्थः । शुभ दीप्तौ, ते शोभितः ॥ ४९४ दानिनां भोगिनां पतौ वीराणां मत्रिणां तथा। सङ्ग्रामसूनुर्जागर्ति प्रथमो गुणवत्तया ॥ ४९५ व्याख्या- सङ्ग्रामसूनुः श्रीकर्मचन्द्रः, दानिनां दातृणाम् , पतौ श्रेण्याम् , गुणवत्तया औदार्यादिगुणयुक्तत्वेन, प्रथम आदिमो मुख्यो जागर्ति दीप्यते । दानशौण्डो वर्तत इत्यर्थः । तथा भोगिनां भोक्तृणां पतौ, भोगान्तरायकर्मक्षयोपशमरूपगुणवत्त्वेन प्रथमो जागर्ति महाभोक्तेत्यर्थः । तथा वीराणां शूराणां पङ्को, शौर्यरूपगुणवत्त्वेन प्रथमो जागर्ति, रणे न कदापि वैरिणां पृष्ठं ददातीत्यर्थः । तथा मन्त्रिणामालोचकारिणां पङ्को, मतिनैर्मल्यरूपगुणवत्त्वेन प्रथमो जागर्ति, महामन्त्रविधायक इत्यर्थः ॥ ४९५ अधिकारनियक्तानां भूपानां मत्रिणां तथा। संख्या न विद्यते नूनं कृतयोः पुण्यपापयोः॥४९६ व्याख्या-अधिकारे दण्डनायकत्वादिरूपे, नियुक्तानां व्याप्तानाम् , तथेति समुच्चये, भूपानां राज्ञां तथा मन्त्रिणां धीसखानाम् , कृतयोः पुण्यपापयोः, संख्या इयत्ता गणनेति यावन्न विद्यते । नूनं निश्चितम् , तैः पापान्यपि क्रियन्ते पुण्यान्यपि क्रियन्ते । राज्याधिकारित्वात् । अत एव तत्कृते पुण्य-पापे न संख्यातुं शक्यते । अस्यापि मनिराजत्वात् पुण्य-पापे द्वे अपि " गणनातीते ॥ ४९६ तथापि पुण्यकार्याणि व्याक्रियन्ते महात्मभिः। राजहंसैर्यथा वारि मुक्त्वा संगृह्यते पयः॥ ४९७ - व्याख्या-तथापि महात्मभिर्महाशयः, तेषां गणनातीतपुण्यपापवतामपि, पुण्यकार्याणि तैः कृतानि धर्मकृत्यानि, व्याक्रियन्ते कथ्यन्ते । यतो यस्माद्धेतोः, राजहंसैर्वारिजलं मुक्त्वा पयो दुग्धं संगृह्यते । तेषां पुरः पयो यदा पातुं दीयते . तदा तैः पयः पीयते, जलं पश्चादवतिष्ठते । यदुक्तम् - "अम्लत्वेन रसज्ञाया मिश्रयोः क्षीर-नीरयोः । विवेच्याऽऽपिबति क्षीरं नीरं हंसो विमुञ्चति ॥" एवं सतामपि स्वभावोऽयं यत् तत्कृतपुण्यान्येव गृह्यन्ते न तत्कृतपापकर्माणि स्मर्यन्ते ॥ ४९७ यद्यपि कमल-कुमुदयोर्विकास-सङ्कोचकारिताऽस्ति रवौ। सन्तस्तथापि तस्मिन् पयोजबन्धुत्वमेवाऽऽहुः॥ ४९८ व्याख्या-यद्यपि खौ सूर्ये, कमल-कुमुदयोर्विकास-सङ्कोचौ करोतीत्येवं शीलो विकास-सङ्कोचकारी तद्भावो विकाससङ्कोचकारिताऽस्ति । कमलं विकासयति, कुमुदं सङ्कोचयतीत्युमे अपि गुण-दूषणे रवी स्तः; तथापि सन्तस्तस्मिन् रवौ, गुणग्राहित्वेन पद्मविकासकत्वात् पयोजबन्धुत्वमेव आहु वते । न कुमुदसङ्कोचकत्वेन कुमुदवैरीति ब्रुवते । रवेर्नाम अब्जबन्धुरिति रूढम् , न कुमुदवैरीति ॥ ४९८ दूषण-गुणपरिपूर्णे नरे खलौ भवति दोषगणरसिकः। केलिवने किमु करभः कारेल्लिफलं न चानाति ॥ ४९९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122