Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 85
________________ मत्रिकर्मचन्द्रवंशावलीप्रबन्ध । [४८०-४८७ व्याख्या-साहसी साहसवान् , मन्त्री श्रीकर्मचन्द्रः, शोभनोपदा ढौकनं करे येषां ते सदपदाकरास्तैौकनहस्तैः. विशिष्टैः प्रधाननरैः पुरुषैर्वेष्टितः परिवृतः, सहायैः सेवकैरुत्साहित उद्यमितः सहायोत्साहितः, साहेमन्दिरं गृहं प्राप ॥४७९ श्रीजैनदर्शनोयोतविधानैकनिबन्धनम् । प्रतीतेरास्पदं साहेः शेष अवलफइजलम् ॥ ४८० पुरस्कृत्य ससत्कारं श्रीसाहेः पुरतो दश। गजान् द्वादश वाजीन्द्रान् वासांसि विविधानि च ॥ ४८१ सहस्रदशकं राजद्राजतानां च तत्क्षणात् । सर्वसामाजिकाध्यक्षं प्राभृतीकृतवानिति ॥ ४८२ - त्रिभिर्विशेषकम् । व्याख्या-मन्त्री शेष अवलफइजलं पुरस्कृत्य अग्रे विधाय, ससत्कारं सत्कारसहितं यथा स्यात्तथा, तत्क्षणात् सधः, ॥ सर्वे ये सामाजिकाः पार्षद्यास्तदध्यक्षं तत्प्रत्यक्षं सर्वसामाजिकाध्यक्षम्, श्रीसाहेः पुरतोऽग्र इति प्राभृतीकृतवान् उपदीचके । इतीति किम् ? दश गजान्, द्वादश बाजीन्द्रान्, चः समुच्चये, विविधानि नानाप्रकाराणि वस्त्राणि, तुक्कसेति ख्यातानि च पुनः, राजद्राजतानां शोभमानरौप्यनाणकानां सहस्रदशकं दश सहस्राणि, किंभूतं शेषम् ! श्रीजैनदर्शनस्य श्रीजिनधर्मस्य, उयोतविधाने प्रभासन एकमद्वितीयं निबन्धनं कारणम् ; तथा साहेरकबरस्य प्रतीतेः प्रत्ययस्य आस्पदमाश्रयो विसम्भास्पदमित्यर्थः॥ ४८०-४८२ दृष्ट्वाऽथोत्सृष्टमुत्कृष्टं प्राभृतं प्रभुतावहम् । जलालदीजेगी गाजी: किंनिमित्तमिदं वद ॥ ४८३ व्याख्या-अथ ढौकनढौकनानन्तरम् , जलालदीर्गाजीरकबरः, प्रभुतावहमैश्वर्यधारकमुत्कृष्टं प्रधान प्राभृतं गजाधुपदामुत्सृष्टं दत्तं दृष्ट्वा, मन्त्रिणं जग। प्रोवाच, हे मन्त्रिन् । इदं प्राभृतं किंनिमित्तम् ! त्वं वद ब्रहि ॥ ४८३ जिनचन्द्रगुरोरेवं गौरवाय प्रवर्तितः। युगप्रधाननानोऽयमुत्सवोऽद्येति मन्यवक ॥ ४८४ व्याख्या-हे साहे ! जिनचन्द्रगुरोर्गौरवाय बहुमानाय, युगप्रधाननाम्नः श्रीसाहिदत्तयुगप्रधान इत्यभिधायाः अयमुत्सवः, अद्यैवममुना प्रकारेण, मया प्रवर्तित आरब्ध इति मन्त्र्यवगुवाच ॥ ४८४ युक्तमित्युक्तिपूर्व तत् प्रसादीकृतवानहो । सचिवस्यैव भूजानिगृहीत्वा रोप्यमेककम् ॥ ४८५ अष्टमांशः सदाऽस्माकं विद्यते धर्मकर्मणाम् । तथा किमावयोर्दायं पृथग् यद्दातुमीहितम् ॥ ४८६ - युग्मम् । व्याख्या-हे मन्त्रिन् ! इदं युक्तं न्याय्यमित्युक्तिपूर्व कथनपुरस्सरम् , तड्डौकनम् , भूजानिः श्रीसाहिस्तन्मध्य एककमेकं रौप्यं राजतं मङ्गलनिमित्तं गृहीत्वा, सचिवस्यैव मन्त्रिण एव, प्रसादीकृतवान् दत्तवानित्यर्थः । अहो इति विस्मये । विस्मयश्चेत्थम् - अन्येषामसौ साहिौंकितं वस्तु लोलुपत्वान्न प्रतिददौ । अस्मै पुनः सर्व प्रसादीकृतवानिति । हे मन्त्रिन्। भवदुक्त्या सदा क्रियमाणानां धर्मकर्मणामष्टमोऽशो भागो विद्यते । तथा आवयोप्यं धनं किं पृथग भिन्नं विद्यते ? यद यस्माद्धेतोरेतत् त्वया दातुं वितरितुमीहितं वाञ्छितम् ! । दायशब्दो धनार्थः पुनपुंसके । यदुक्तं- 'खं दायौकखरे॥४८५-४८६ ततः सामन्तचक्रस्य पुरस्तादस्तशात्रवः। प्रशशंस तकत्कृत्यं साहिरुत्साहशक्तिमान् ॥ ४८७ व्याख्या-ततोऽनन्तरम् , साहिः सामन्तानां त्रिचतुरदेशाधिपतीनाम् , यच्चक्रं वृन्दम् , तस्य पुरस्तादने, तकत् ॐ तत्कृत्यमुपदालक्षणं प्रशशंस तुष्टाव । किंभूतः ! अस्ता दूरीकृताः शात्रवाः प्रतिपक्षा येन सोऽस्तशात्रवः । तथा उद्यम्य सहनमुत्साहशक्तिस्तद्वानुत्साहशक्तिमान् । तकदिति 'अव्ययसर्वनाम्नामक प्राक् टेः' इत्यकच् ॥ ४८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122