Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 62
________________ ३२३ - ३२८ ] पाठक श्रीजयसोमविरचित ५३ व्याख्या - यः श्रीकर्मचन्द्रः, राजसिंहराज्ये श्रीसिन्धुमण्डलप्रभुतां श्रीसिन्धुदेशैश्वर्यम्, प्राप्य अधिगम्य, सतलंज-डेकरावीसिन्धुषु सतलंज-डेक रावीनदीषु तिसृषु, मीनावनं मत्स्यरक्षणम्, विदधे चकार ॥ ३२२ राजसिंहं समभ्यर्थ्य चतुरङ्गचमूयुजा । हडफास्थान संस्थायिबलोचानभिजग्मुषा ॥ ३२३ बलोचानां बलोच्चानां वाहिनी रणगाहिनी । तर्जिता च जिता येन कृता धनिकवर्जिता ॥ ३२४ - युग्मम् । व्याख्या - येन श्रीकर्मचन्द्रेण, बलोच्चानां म्लेच्छविशेषाणाम्, वाहिनी सेना, तर्जिता भत्सिता । तर्जङ्क तर्ज भर्त्सने । च पुनः, जिता पराभूता । तथा धनिकेन खामिना, वर्जिता रहिता धनिकवर्जिता कृता । किम्भूतानां बलोचानाम् ! बलेन सैन्येन सामर्थ्येन चोच्चास्तुङ्गा अतिशायिनो बलोच्चास्तेषां बलोच्चानाम् किम्भूता वाहिनी ? रणं सङ्ग्रामं गाइते विलोडयतीत्येवंशीला रणगाहिनी; किम्भूतेन येन ? राजसिंहं समभ्यर्थ्य आग्रहेण याचित्वा चत्वार्यङ्गानि गजवाजिरथपत्ति- 10 लक्षणानि विद्यन्ते यस्याः सा चतुरङ्गा एवंविधा या चमूः सेना, तां युनक्तीति चतुरङ्गचमूयुक्तेन चतुरङ्गचमूयुजा, राजसिंहकथनेन चतुरङ्गचमूसहितेनेत्यर्थः । पुनः किम्भूतेन ? हडफास्थाने संस्थायिनो ये बलोच्चास्तानभि अभिमुखं हन्तुं जग्मुषा गतेन ॥ ३२३ - ३२४ स किंप्रभुर्यमाश्रित्य सेवको नाभिनन्दति । स सेवकोsपि किं योऽर्थं स्वामिनो नैव साधयेत् ॥ ३२५ व्याख्या -स किमिति प्रश्ने प्रभुः स किंप्रभुः कुत्सितः प्रभुरित्यर्थः । यं प्रभुमाश्रित्य अङ्गीकृत्य, सेवको भक्तलोकः, नाभिनन्दति न समृद्धिमा मोति; तथा स सेवकोऽपि किमिति प्रश्नः स सेवकोऽपि कुत्सित इत्यर्थः, यः सेवकः खामिनः प्रभोरथं कार्य वैरिननादि नैव साधयेन्निष्पादयेत् । 'किं क्षेप-निन्दयोः प्रश्ने वितर्के' इत्यनेकार्थः । यतः - 'स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किंप्रभुः । सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पदः ॥ १ ॥' इति भारविः ॥ ३२५ या बन्दी निजसैन्ये समागता वैरिविषयसम्भूता । वस्त्रान्नदानपूर्व सा नीता येन निजगेहे ॥ ३२६ व्याख्या - या बन्दी हठाकृष्टा स्त्री, बलवतो हस्ते क्षिप्तो राजपुत्रादिश्च निजसैन्य आत्मीयकटके, वैरिविषयसम्भूता शत्रुदेशसम्बन्धिनीत्यर्थः, समागता आयाता सा बन्दी, वस्त्रान्नदानपूर्वं वसनाशनवितरण पुरस्सरम्, येन श्रीकर्मचन्द्रेण निजगेहे खसदने, नीता प्रापिता ॥ ३२६ Jain Education International कारयामास चैत्येषु स्नात्रं यः प्रतिवासरम् । स्वदेशे द्रव्यदानेन शौल्कशालिकलोकतः ॥ ३२७ व्याख्या - यः श्रीमन्त्रिराट्, प्रतिवासरं प्रतिदिनम्, खदेशे आत्मीयमण्डले, शुल्कशालायां नियुक्तः शौल्कशालिक एवंविधो यो लोको जनस्तस्माद्, द्रव्यदानेन अर्चेचितद्रविणवितरणेन, चैत्येषु जैन विहारेषु, स्नात्रं कारयामास अचीकरत् ॥ ३२७ स्तूपं श्रीजिनदत्तस्य कुशलस्य गुरोरपि । अचीकरद् गुरुप्रीत्या फलवर्धिपुरीस्थितः ॥ ३२८ व्याख्या - य इति गम्यते यः श्रीकर्मचन्द्रः फलवर्धिपुरीस्थितः फलवर्धिकापुरस्थितः सन् श्रीजिनदत्तस्य श्रीजिनदत्तसूरे', कुशलस्य गुरोरपि श्रीजिनकुशलसूरेरपि, गुरोरुपरि या प्रीतिरानन्दः, यद्वा गुर्वी गरिष्ठा या प्रीतिस्तया गुरुप्रीत्या, स्तूपमचीकरत् कारयामास । 'स्तुवो दीर्घश्च' ष्टुत्रतः पो धातोर्दीर्घश्च । 'स्तूपो भूमिसमुच्छ्रयः' प्रक्रियोणादौ ॥ ३२८ For Private & Personal Use Only 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122