Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
५२
मधिकर्मचन्द्रवंशावलीप्रबन्ध ।
[३१७-३२२ व्याख्या-अमुना श्रीकर्मचन्द्रेण मन्निश्रीचन्द्रसहितेन, एकादशाऽप्यङ्गान्याचारादीनि, श्रुतधारिणां श्रुतवताम् , गुरूणां श्रीजयसोमोपाध्यायानाम् , सन्निधौ समीपे, श्रीविक्रमनगरे प्राकारन्तः, अर्थोऽभिधेयस्तीर्थकरप्रणीतः, सूत्रं गणधरकृतम्, ते आदौ येषां निर्युक्त्यादीनां तेऽर्थसूत्रादयस्तेषाम् , क्रमतः परिपाट्या-पूर्वमाचाराङ्गं श्रूयते पश्चात् सूत्रकृताङ्गमित्यादि
श्रवणक्रमेण, साक् शीघ्रं श्रुतानि । 'द्रागादयः' इति द्राक् इत्यादयः शब्दाः किक्प्रत्ययान्ता निपात्यन्ते । द्रवतेरा च द्राक्, । एवं सरतेः साक् स एवार्थ इत्युणादौ ॥ ३१६
श्रुतज्ञानस्य भत्त्यर्थं श्रीसिद्धान्तस्य लेखने ।
घनं धनं पुनर्येन पुरा व्यापारितं विदा ॥ ३१७ व्याख्या-विदा विचक्षणेन येन श्रीकर्मचन्द्रेण, श्रुतज्ञानस्य जिनागमस्य, भक्त्यर्थ भक्तिः सेवा तदर्थम्, श्रीसिद्धान्तस्य लेखने-पत्रेषु लेखकेभ्यः अक्षरन्यासीकरणे, घनं बहु धनम्, पुनर्भूयो व्यापारितं नियोजितम् । धनं धनं दत्वा यः 10 पुस्तकानि लेखयति स्मेति भावः ॥ ३१७
शत्रुञ्जयोजयन्तायोः शिखरे जैनमन्दिरम् ।
विधापयितुमर्थोघं प्रेषयामास यः सुधीः ॥ ३१८ व्याख्या- यः सुधीः सुबुद्धिमन्त्री, शत्रुञ्जयाद्रिश्चोज्जयन्तादिश्च द्वन्द्वान्ते श्रूयमाणो द्विशब्द उभयत्रापि योज्यते, शत्रुञ्जयोजयन्ताद्री तयोः शत्रुञ्जयोज्जयन्ताद्योः, शिखरे शृङ्गे, जैनमन्दिरं विधापयितुं कारयितुम् , अर्थोघं द्रव्यसमूहम्, "प्रेषयामास प्रहिणोति स्म ॥ ३१८
चतुःपर्वी समग्रोऽपि कारुलोको यदाज्ञया।
पालयामास राजेन्द्रराजसिंहस्य मण्डले ॥ ३१९ व्याख्या-यस्य मन्त्रिणः, आज्ञया आदेशेन, राजेन्द्रराजसिंहस्य मण्डले देशे, समग्रोऽपि समस्तोऽपि, कारुलोकः शिल्पिजनः, चतुःपौमष्टमीचतुर्दशीपूर्णिमामावास्यारूपां पालयामास । अष्टभ्यादिपर्वदिवसेषु न कोऽपि कारुः कुम्भपाकादि कर्तुं लभत इत्यर्थः ॥ ३१९ पुनर्धर्मकृत्यान्तरमाह
चाक्रिकान् कुम्भकारांश्चारम्भं खखकुलोद्भवम् ।
त्याजयामास वर्षासु शत्तया युक्त्या च यः कृती ॥ ३२० व्याख्या- यः कृती सुधीः श्रीकर्मचन्द्रः, शक्त्या खसामर्थ्येन, युक्त्या च न्यायेन, वर्षासु प्रावृट्काले, चाक्रि४ कांस्तैलिकान् , कुम्भकारांश्च कुलालान्, खखकुलोद्भवमात्मीयात्मीयवंशसम्भवम् , आरम्भं प्राण्युपमर्दम् , त्याजयामास अतित्यजत् । 'युक्तिया॑ये योजने च'। शक्तिरेवम् - यच्छीराजसिंहराजाज्ञेयं वर्तते यत् केनापि न वर्षासु तिलपीडनादि कर्तव्यमिति । युक्तिश्चेत्थम् -यदत्र वर्षासु भूयांसो जन्तवो भवन्ति तेषां हिंसा साक्षादवलोक्यते तेन भवद्भिरपि पारलौकिकहितार्थिभिन स्वकर्म कार्यमिति ॥ ३२०
छेदनं सर्ववृक्षाणां निखिले मरुमण्डले ।
निषिद्धं राजसिंहस्य प्रसादेनैव मश्रिणा ॥ ३२१ व्याख्या-मत्रिणा श्रीकर्मचन्द्रेणैव, राजसिंहस्य राज्ञः, प्रसादेन अनुग्रहेण, निखिले समस्ते, म्रियन्ते तृषाऽत्र मरुः, मरुनामा मण्डलो देशो मरुमण्डलस्तस्मिन् , सर्ववृक्षाणां शम्यादीनाम् , छेदनं कल्पनम् , निषिद्धं वारितम् ॥ ३२१
यो राजसिंहराज्ये प्राप्य श्रीसिन्धुमण्डलप्रभुताम् । सतलंज-डेक-रावीसिन्धुषु मीनावनं विदधे ॥ ३२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122