Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३६२-३६८ ]
पाठक श्रीजय सोम विरचित
५९
आदिष्टवान् अचीकथदित्यर्थः । तदेवाह - हे मन्त्रिन् ! श्रीजैनदर्शने जैनमते, यः शान्तिविधिर्जेनसमयप्रसिद्धो दोषशान्त्यै अस्ति विद्यते, तं शान्तिविधिं विधेहि कुरुष्व ॥ ३६१
सम्मान्य साहिसंदिष्टं विशिष्टविधिनाऽमुना । कारितं शान्तिकस्नानं स्वर्णरूप्यमयैर्घटैः ॥ ३६२ माङ्गल्यदीपवेलायां शेषू (खू) जी : साहिनन्दनः । आयातः सत्कृतो रौप्यसहस्रदशकार्पणात् ॥ ३६३ – युग्मम् ।
व्याख्या – अमुना श्रीकर्मचन्द्रेण, साहिना श्रीअकबरेण संदिष्टं कथितम् - यत्त्वं शान्तिकं विधेहीत्येतद्रूपम् – सम्मान्य बहुमानयित्वा 'तसलीम' पुरस्सरं स्वीकृतेत्यर्थः । स्वर्ण-रूप्यमयैर्घटैः सौवर्ण रौप्य कलशैः, विशिष्टविधिना सुन्दरशास्त्रोक्तप्रकारेण, शान्तिकस्नानं कारितम् । श्रीजिनप्रतिमानवग्रह दिक्पालादिव्यवस्थापनादिशान्तिकविधिर्गुरूपदेशतोऽवसेयः । तथा माङ्गल्यदीपवेलायां मङ्गलहेतुप्रदीपकरणावसरे, साहिनन्दनः श्री अकबरपातसाहिपुत्रः शेषू (खू) जीः आयातः । रौप्याणां रूप्य- " नाणकविशेषाणां सहस्रदशकस्य यदर्पणं दानं दशसहस्रराजतढौकन मित्यर्थः । तस्माद्रौप्यसहस्रदशकार्पणात् सत्कृतो गौरवितः । मङ्गले साधुर्मङ्गल्यः। ‘तत्र साधुः' इति यत् । 'मङ्गल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके बिल्वे' इत्यनेकार्थः । रुचिरे मङ्गलहेतौ वाच्यलिङ्गः ॥ ३६२ – ३६३
शान्तिकस्नान पानीयमानीय नयनद्वये ।
श्रीसाहेः सावरोधस्य लगयामास शान्तये || ३६४
व्याख्या – मन्त्री सावरोधस्य अन्तःपुरसहितस्य श्रीसाहेः, शान्तये दोषोपशमाय, नयनद्वये नेत्रयुगे, शान्तिस्नानपानीयं शान्तिकजलमानीय नीत्वा, लगयामास लगयति स्म । लग्मे सङ्गे ॥ ३६४ मुदमासादयामास कृत्येऽस्मिन् मन्त्रिणा कृते । दोषमोषरमापोषकारणैः को न तुष्यति ॥ ३६५
व्याख्या – मन्त्रिणाऽस्मिन् शान्तिकस्नानरूपे कृत्ये कार्ये कृते सति, श्रीसाहिर्मुदं हर्षमासादयामास प्राप । यतो 20 दोषाणाममङ्गलरूपाणां यो मोषोऽपनयनम्, रमायाः शान्तिलक्ष्म्या यः पोषः पुष्टिस्तयोर्यानि कारणानि हेतवस्तैर्दोषमोषरमापोषकारणैः, को न तुष्यति हृष्यति ? अपि तु सर्वोऽप्येवंविधविधिविधाने प्रीयत इत्यर्थः ॥ ३६५
अन्यदा कोविदव्यूहे गुणागुणविचारिणि ।
प्रगुणे साहिराह स्म को गुणी जैनदर्शने ? ॥ ३६६
व्याख्या – अन्यदाऽन्यस्मिन् प्रस्तावे, गुणांश्च अगुणांश्च विचारयति विमृशतीत्येवंशीलो गुणागुणविचारी, तस्मिन् गुणागुणविचारिणि, कोविदव्यूहे पण्डितसमूहे सति, साहिराह स्म अब्रवीद् - भोः पण्डिताः ! प्रगुणे प्रकृष्टगुणे निर्दोषे जैनदर्शने को गुणी प्रशस्तगुणवान् ? । अतिशायने मत्वर्थीयः ॥ ३६६
इति साहिनोक्ते सति कोविदैः [ यदुक्तं तदाह ] -
Jain Education International
जिनचन्द्रो गुरुः प्रौढमाहात्म्योऽस्ति महामतिः ।
श्रुत्वोक्तं साहिरप्राक्षीत् कः शिष्योऽमुष्य वर्तते ? ॥ ३६७
व्याख्या - प्रौढं प्रवृद्धं माहात्म्यं महिमा यस्य असौ प्रौढमाहात्म्यः, महामतिर्महाधिषणो जिनचन्द्रो गुरुः श्रीजिनचन्द्रसूरिः, अस्ति विद्यते । इतीति गम्यते । इति श्रुत्वा परेभ्यो उक्तं निशम्य ततः साहिः अप्राक्षीत् अपृच्छत्अमुष्य श्रीजिनचन्द्रसूरेः कः शिष्यो भक्तो वर्तते ! ॥ ३६७
कर्मचन्द्र इति प्राज्ञैरुक्तेऽथाहूय मन्त्रिणम् ।
साहिः प्राह गुरुस्तेऽत्र यथाऽऽयाति तथा कुरु || ३६८
15
For Private & Personal Use Only
25
35
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122