Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 73
________________ मश्रिकर्मचन्द्रवंशावलीप्रबन्ध । [३९८-४०४ द्धारान् पतितपुण्डरीकाद्रौ श्रीशत्रुञ्जये, त्याला स कृतोऽमुना ॥ ३९० पुण्डरीकाचलादयः शत्रुञ्जयप्रभृतयस्तीर्थाः पुण्यक्षेत्राणि, नूनं निश्चितम् , मन्त्रिसाच्चक्रिरे मध्यधीना बिदधिरे । 'तदधीनवचने' इति तदधीनत्वाथै सातिः स्यात् सम्पदा कृम्वस्तिभिर्योगे । तरन्त्यनेन तीर्थम् , 'नीनूरमीति' कित् वः। 'तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ योनौ पात्रे दर्शनेषु' – इत्यनेकार्थः । पुण्यक्षेत्रावतारयोः पुंक्लीबः, शेषेषु क्लीबे ॥ ३९७ आजमखानमुद्दिश्य मुद्रितं निजमुद्रया। फुरमानमदात् साहिर्यस्मै प्रीणितमानसः ॥ ३९८ व्याख्या-साहिः श्रीअकबरः, प्रीणितमानन्दितं मनो यस्यासौ प्रीणितमाना एवंविधः सन् , यस्मै श्रीमत्रिणे निजमुद्रया आत्मीयाङ्गुलीयकेन मुद्रितमङ्कितं फुरमानं तीर्थरक्षानिवेदकपत्रम् , आजमखानमुद्दिश्य अधिकृत्य अदात् ददौ । आजमखानं प्रति फुरमानं दत्तं साहिना यन्मया जैनतीर्थानि मन्त्रिश्रीकर्मचन्द्राय दत्तानि सन्ति त्वया सम्यगेषां ० रक्षा विधेयेति ॥ ३९८ उद्धारान् सप्त चैत्यानां कारणाद् विदधुः पुरा । महान्तः पुण्डरीकाद्रौ रक्षणात् स कृतोऽमुना ॥ ३९९ व्याख्या-पुण्डरीकाद्रौ श्रीशत्रुञ्जये, चैत्यानां कारणाद् विधापनात् , पुरा पूर्वम् , महान्तो भरतादयः सप्तोद्धारान् पतितपुनर्नवीकरणरूपान् विदधुरकाएः । अमुना श्रीकर्मचन्द्रेण रक्षणान्म्लेच्छकृतभङ्गोपद्रवदूरीकरणात् , सोऽष्टम । उद्धारः कृतः ॥ ३९९ कश्मीरान् गन्तुकामेनान्यदा नौमध्यवर्तिना। साहिना मुदितेनैवमुदितो मनिनायकः ॥ ४०० व्याख्या-अन्यदा अन्यस्मिन् समये, कश्मीरान् गन्तुकामेन जिगमिषुणा, नौमध्यवर्तिना तरीमध्यस्थायिना, मुदितेन हृष्टेन, साहिना श्रीअकबरेण, मन्निनायकः श्रीकर्मचन्द्रः, [एवमनया रीत्या] उदित उक्तः ॥ ४०० 28 अप यदुक्तं साहिना मन्त्रिणे प्रति तदाह जिनचन्द्रास्त्वया तूर्णमाह्वाय्या वचसा मम । धर्मलाभो महांस्तेषां मया देयोऽस्ति वाञ्छितः॥ ४०१ व्याख्या-हे मनिन् ! मम वचसा त्वया तूर्णं शीघ्रं जिनचन्द्रा बृहद्गुरव आह्वाय्या आकार्याः । यस्मात्तेषां बृहद्गुरूणाम् , मया महान् धर्मलाभो वाञ्छितस्तेषामिष्टो देयोऽस्ति ॥ ४०१ पूज्या अपि तवाह्नता ययुः श्रीसाहिसन्निधौ । श्रीगुरोर्दर्शनादेवॉनन्दितोऽभून्नराधिपः ॥ ४०२ व्याख्या- तेन श्रीकर्मचन्द्रेण, आहूता आकारितास्तदाहूताः, पूज्या अपि, श्रीसाहिसन्निधौ श्रीसाहिसमीपे ययुरगच्छन् । नराधिपः श्रीसाहिः श्रीगुरोर्दर्शनादेव अवलोकनादेव आनन्दितः प्रमुदितोऽभूत् ॥ ४०२ शुचिमासे शुचौ पक्षे प्रसन्नो दिनसप्तकम् । नवमीतो ददौ साहिरमारिगुणपावनम ॥४०३ व्याख्या-शुचिमास आषाढमासे, शुचौ श्वेते पक्षे, साहिः प्रसन्नस्तुष्टः सन् , नवमीत आरभ्य दिनसप्तकममारिगुणेन पावनं पवित्रं ददौ । आषाढसितनवम्या आरभ्य दिनसप्तकं न कोऽपि जीवहिंसां कर्तुमलमिति साहिन आज्ञप्तं श्रीजिनचन्द्रगुरूणां पुण्यहेतव इति भावः ॥ १०३ एकादशसु शुम्बेषु फुरमानानि साहिना । अमारिघोषणां कर्तुं लेखपिस्वार्पितान्यहो। ॥ ४०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122