Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
३४८ -३५४ ]
पाठकश्रीजयसोमविरचित उपदादानतः साहिर्वरिवस्थाविधानतः ।
वशीकृतो वचोयुक्त्या येन सर्वातिशायिना ॥ ३४८ व्याख्या-येन श्रीकर्मचन्द्रेण, साहिः, उपदा ढौकनं तस्या दानतो वितरणात् , तथा वरिवस्या परिचर्या तस्या विधानतः करणात्, तथा वचोयुक्त्या मधुरप्रस्तावोचितवचनयोजनेन, वशीकृतः खवशे नीतः। किम्भूतेन येन ! सर्वानतिशेतेऽधिकीभवतीति सर्वातिशायी तेन सर्वेभ्योऽप्यधिकेनेत्यर्थः ॥ ३४८
दर्शनं यस्य दुष्पापं स्पर्शनं किमु पादयोः ।
वादनं तु प्रियैर्वाक्यैर्दूरे यस्य महीपतेः ॥ ३४९ व्याख्या- यस्य महीपतेः श्रीसाहेः, दर्शनमवलोकनं दुष्प्रापं दुर्लभम् । किमु इति वितर्के, किमु किं पादयोश्चरणयोः स्पर्शनं पाणिभ्यां सङ्घटनम् , तद्धि विशेषतो दुष्प्रापमित्यर्थः । तु विशेषेऽव्ययम् , तु विशेषेण यस्य महीपतेः प्रियैर्मधुरैर्वाक्यैदिनमुल्लापनम् , दूर आरात् , मधुरवाक्यैर्वादनं तु बहुभिः पुण्यैः प्राप्यत इत्यर्थः ॥ ३४९
दर्शनं स्पर्शनं वाक्यैर्मधुरैर्वादनं तदा ।
युगपद् यस्य सम्पन्नं श्रीसाहेः सर्वसाक्षिकम् ॥ ३५० व्याख्या-तदा तस्मिन्नवसरे, यस्य श्रीमत्रिणः, सर्वसाक्षिकं सर्वसमाजनप्रत्यक्षम् , श्रीसाहेः, युगपत् समकालं दर्शनं नेत्राभ्याम् , स्पर्शनं साहिपादयोः, मधुरैर्वाक्यैर्वादनमुल्लापनम् , सम्पन्नं सम्प्राप्तम् ॥ ३५०
दर्शनादादिमादेव प्राप साहीशमानसम्।।
प्रसन्नतामदोवादीत् तमुत्साहयितुं ततः॥ ३५१ व्याख्या-आदिमादेव प्रथमादेव दर्शनात्, श्रीमध्यवलोकनात्, साहीनामीशः खामी साहीशः श्रीअकबरस्तस्य मामसं साहीशमानसम्, प्रसन्नता प्राप प्रसन्नमभवदिल्यर्थः। ततोऽनन्तरं श्रीसाहितं श्रीमधिराजमुत्साहयितमद्यमयितुमदों वक्ष्यमाणमवादीत् ॥ ३५१ तदेवाह - चिरं मृगयमाणस्य पुमांसं राज्यचिन्तकम् ।
प्रापितस्त्वं प्रसन्नेन ममाकस्मान्महात्मना ॥ ३५२ व्याख्या-हे मनिन् । चिरं चिरकालं यावद् राज्यचिन्तकं राज्यचिन्ताकारकं पुमांसं पुरुषम् , मृगयमाणस्य अवलोकयतो मम, अकस्मादित्यतर्कितोपनतेऽव्ययम् , अकस्मादविचारितमेव, प्रसन्न ममोपर्यनुग्रहोपेतेन, महात्मना परमेश्वरेण, त्वं प्रापित उपढौकितः। मृगयमाणस्येति 'मृगणि अन्वेषणे ॥ ३५२
चिन्तां मा कुरुताञ्चित्ते पश्य स्वमचिरादहम् ।
महान्तं त्वां विधास्यामि धारिवाह इवाङ्कुरम् ॥ ३५३ व्याख्या-हे मन्निन् ! त्वं चित्ते मनसि, चिन्तां दुरध्यवसायम् , मा कुरुतान्मा कुरु । त्वं पश्य अचिरात् स्तोकेनैव कालेन, त्वां महान्तं सकलनृपमुख्यं विधाताऽस्मि कर्ताऽस्मि । करिष्यामीति भावः। कः कमिव ? वारिवाहो मेघोऽङ्करमिव । यथा वारिवाहोऽङ्करं प्ररोहं महान्तं करोति वर्धयति तथा त्वामपि करिष्यामीत्यर्थः ॥ ३५३
अहो भाग्यमहो भाग्यमहो सौभाग्यमद्भतम ।
समेषामपि लोकानां तदा गीरित्यभूत्तराम् ॥ ३५४ व्याख्या- अहो इति विस्मयेऽव्ययम्, अस्येति गम्यते । अस्य मन्त्रिणोऽहो भाग्यमहो भाग्य भागधेयम् , राभस्ये द्विरुक्तिः । अहोऽद्भुतं सौभाग्यं जनवाल्लभ्यमित्यमुना प्रकारेण, समेषामपि सर्वेषामपि, लोकानां द्रष्टुजनानाम्, तदा मन्त्रिणः साहिमिलमाषसरे गीर्वाण्यभूत्तरामतिशयेन बभूव ॥ ३५४
म. क. वं. प्र.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122