Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 70
________________ ३७७-३८२] पाठकश्रीजयसोमविरचित व्याख्या-ततः फुरमानागमनानन्तरं जावालपुरे, वर्षावासं स्थित्वा; सहसि मार्गशीर्षे मासे, गुरुदैवत:दिने पुण्यनक्षत्रवद्वासरे, विजहुर्जावालपुराद् विहारं चक्रुः । किम्भूतं वर्षावासम् ? कृतः कार्षकाणामुल्लासो हर्षविलासो येन स कृतोल्लासस्तम् ॥ ३७६ पल्लिपुरमेदिनीतटनागपुरादिषु पुरेषु भूयस्सु । सङ्घकृतोत्सवनिवहा गुरवो बहुसाधुपरिकरिताः ॥ ३७७ विक्रमपुरीयसङ्घ नागपुरे वन्दनार्थमायातम् । व्यापारितबहुऋद्धिं प्रोत्साह्य ततो विहृतवन्तः ॥ ३७८ - युग्मम् । व्याख्या-गुरवः श्रीजिनचन्द्रसूरयः, पल्लिपुर-मेदिनीतट-नागपुरादिषु भूयस्सु बहुलेषु पुरेषु, सङ्घन कृत उत्सवनिवहो महसमूहो येषां ते सङ्घकृतोत्सवनिवहाः, तथा बहुभिर्घनैः साधुभिः परिकरिताः परिवृता एवंविधाः सन्तः, नागपुरे वन्दनार्थ वन्दननिमित्तम् , आयातमागतं विक्रमपुरीयसङ्घ प्रोत्साह्य धर्मवचनैः प्रोत्साहं धर्म उद्यम कारयित्वा, ततो । नागपुराद् विहृतवन्तो विजहुः । किम्भूतं विक्रमपुरीयसङ्घम् । व्यापारिता साधर्मिकवनीपकेषु नियोजिता दत्तेत्यर्थः, बढी घना ऋद्धिः श्रीर्येन स तं व्यापारितबहुऋद्धिम् , ऋत्यक इति ऋति परेऽकः प्राग्वत् प्रकृतिभाव इत्यर्थः ॥ ३७७-३७८ मरुविषयमध्यमार्गे ग्रामग्रामागतास्तिकबातम् । वन्दापयन्त ईयुः श्रीपूज्याः श्रीरिणीनगरे ॥ ३७९ व्याख्या-मरुविषयस्य मरुदेशस्य, मध्यमार्गे बापेऊ-राजलदेसर-मालसरप्रभृतिग्रामक्रमयुक्तवर्त्मनि अन्तराल- 5 वर्त्मनि, ग्रामेभ्यो मामेभ्य आगतो य आस्तिकत्रातः श्राद्धवृन्दं तं वन्दापयन्तो नमस्कारयन्तः, श्रीपूज्याः श्रीजिनचन्द्रसूरयः श्रीरिणीनगर ईयुः समाययुः । अस्ति परलोके मतिर्यस्य स आस्तिकः । अस्तीति तिङन्तप्रतिरूपकमव्ययम् , 'अस्तिमास्तिदिष्ट मतिः' इति ठक । ननु कथं कारापयति वन्दापयति कथापयति लेखापयतीत्यादि ? उच्यते-महाकविप्रयुक्ता एते प्रयोगाः कापि न दृश्यन्ते । यदि च कचन सन्ति ते तदैवं समर्थनीयाः- करणं कारस्तमनुयुके त्वं कुरुष्वेति प्रेरयतीत्यर्थः । उत्पलमतेन 'अतो रिणति' इति वृद्धौ प्वागमे भृत्येन कारापयति, एवं वन्दापयत्तीत्यादिष्वपि, इति क्रियारत्नसमुच्चये। ततो 20 वन्दापयन्त इति प्रयोगः शतरि न दुष्टः ॥ ३७९ कतिचिद्दिनानि तत्र स्थित्वा समहं समाधियोगेन । सचिवस्य भक्तिकर्तुः साचिव्याद् वीरदासस्य ॥ ३८० अवगाह्य वर्त्म विषमं सरखतीपत्तनादिपुरमध्ये। भूत्वा भूतानुग्रहपरास्ततो लाभपुरमीयुः ॥ ३८१ - युग्मम् । व्याख्या-भूतेषु प्राणिषु अनुग्रहपराः प्रसादपरा भूतानुग्रहपराः - भूतानामुपर्यनुग्रहकारिण इत्यर्थः । श्रीजिनचन्द्रसूरयस्तत्र रिण्यां समहं ससङ्घमनिश्रीठाकुरसिंहसुतमन्त्रिराजसिंहविहितोत्सवसहितं यथा स्यात्तथा, समाधियोगेन कायवामनःसमाधानसंयोगेन, कतिचिद्दिनानि स्थित्वा अवस्थाय, भक्तिकर्तुः सेवाविधायकस्य वीरदासस्य सचिवस्य मन्त्रिणः, साचिव्यात् साहाय्याद्, विषमं दुर्गमं वर्त्म मार्गमवगाह्य अतिक्रम्य, सरस्वतीपत्तनादिमध्ये भूत्वा, ततोऽनन्तरं लाभपुरमीयुः समाययुः । 'सचिवः सहायेऽमात्ये' इत्यनेकार्थः। सचिवस्य भावः साचिव्यं 'भावे तत्वयण' इति यण् ॥ ३८० - ३८१ 30 प्रवेशदिन एवात्र मेलिता येन मत्रिणा। जिनचन्द्राः ससम्मानाः श्रीसाहेमहवासरे ॥ ३८२ व्याख्या-अत्र लाभपुरे, येन मन्त्रिणा, प्रवेशदिन एव, श्रीसाहेमहवासर ईददिने, ससम्मानाः सत्कारपूर्वकमित्यर्थः, जिनचन्द्रा मेलिताः । यदिने श्रीपूज्याः श्रीसाहिममिलन् तदिन ईददिनमासीदिति ॥ ३८२ Jaih Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122