Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 50
________________ २४७ - २५२] पाठकश्रीजयसोमविरचित यस्तोरणादिसामग्र्या वाद्यवादनपूर्वकम् । सम्मुखायातराजन्यचक्रोगाद् वैक्रमे पुरे ॥ २४७ व्याख्या-यः श्रीसचामो मन्त्री, तोरणादिसामग्या तोरणवन्दनमालादिसमुदायघटनया, वाधानां तुर्यादीनां यद्वादनं तत्पूर्वकम् , सम्मुखमभिमुखमायातं पादप्रसारार्थ समेतं, राजन्यचक्र क्षत्रियवृन्दं, यस्य स सम्मुखायातराजन्यचक्रः, एवंविधो वैक्रमे विक्रमनृपनाना विहिते पुरे अगाजगाम । विक्रमस्येदं वैक्रममिदमर्थेऽण ॥ २४७ याचकेभ्यो यथायोग्यं दत्त्वा दानमनीदृशम् । __ दृशमुद्धाटयामास कृपया कृपणात्मनाम् ॥ २४८ व्याख्या- यः श्रीसङ्कामो मन्त्री, याचकेभ्योऽर्थिभ्यः यथायोग्यमौचित्यानतिक्रमेण, अनीदृशं नेदृशं सामान्यजनानुष्ठेयमनीदृशमतिशायि दानं दत्त्वा, कृपया दयया, कृपणात्मनां कार्पण्योपहतानां पुंसाम् , दृशं दृष्टिमुद्घाटयामास । तेऽतिशायि दानमस्य दृष्ट्वा मनस्यचिन्तयन् अहो! अस्य दातृत्वं लोकोत्तरमिति तेषां दृष्टिरुद्धाटिता। तत्र तथाविधदानेन तदृष्टयद्धाटने कृपैव ॥ कारणम् , एतेऽपि तपस्विनश्चक्षुषी उन्मील्य पश्यन्त्विति करुणा मन्त्रिराजस्याजायत । अन्योऽपि यः कारुणिको भवति स एव परगुन्मीलनं विदधीते इति च्छायार्थः ।। २४८ कुर्वन् कृत्यं खभक्तानामुपकृत्य मुद्दजनम् । वैरिवारमपाकृत्य ससुखं तस्थिवानयम् ॥ २४९ व्याख्या- अयं श्रीसङ्ग्रामो मन्त्री, स्वभक्तानां स्वीयसेवकानाम् , कृत्यं ग्रामदानादिकार्यम् , कुर्वन् विदधत् , ससुखं । सुखापेतं यथा स्यात्तथा, तस्थिवान् तस्थौ। किं कृत्वा ? सुहृज्जनं मित्रलोकम् उपकृत्यानुकूलाचरणेन प्रतिकूलवारणेन चोपकारं कृत्वा, तथा वैरिवारं शत्रुवृन्दमपाकृत्य दूरीकृत्य, यावद् वैयेकोऽपि स्यात् तावत् सुखं कुतः ? यदुक्तं माघे'ध्रियते यावदेकोऽपि शत्रुस्तावत्कुतः सुखम् । पुरः क्लिश्नाति सोमं हि सैहिकेयो सुरद्रुहाम् ॥ २४९ श्रीजिनचन्द्रसूरीणां समग्रगुणशालिनाम् । क्रियोद्धारमहश्चक्रे येन वित्तव्ययेन वै ॥ २५० व्याख्या-येन श्रीसकाममन्त्रिणा, समग्राः समस्ता ये गुणा ज्ञानादयस्तान शालन्ते श्लाघन्त इत्येवंशीलाः समनगुणशालिनः, तेषां श्रीजिनचन्द्रसूरीणां, वै पादपूरणे, वित्तव्ययेन द्रव्योत्सर्गेण, क्रियोद्धारस्य साधुमार्गशैथिल्यपरित्यागलक्षणस्य, यो मह उसवस्तं चक्रे व्यधात् । 'वै हेतौ पादपूरणे' इति ॥ २५० साधूनध्ययनोद्युक्तान ज्ञानदानोत्कमानसः। न्यायशास्त्रविदां पार्वे विद्यापारदृशामिह ॥ २५१ न्यायशास्त्राण्यनेकानि शासनोन्नतिहेतवे । यथेहितार्थदानेनाध्यापयामास योऽनिशम् ॥ २५२ --- युग्मम् । व्याख्या-इह विक्रमपुरे, यः श्रीसङ्ग्राममन्त्री, अनिशं सदा, साधून् यतिनः, न्यायशास्त्राणि विदन्ति जानन्तीति न्यायशास्त्रविदस्तर्कशास्त्रपाठकाः, तेषां पार्श्वे सविधे, शासनोन्नतिहेतवे श्रीजिनशासनोदयनिमित्तम् , न्यायशास्त्राणि शशधरवर्धमान-तत्त्वचिन्तामण्यादीनि तर्कशास्त्राणि, अध्यापयामास अध्यजीगपत्। केन? यथेहितार्थदानेन-ईहितार्थदानमनतिक्रम्य " यथेहितार्थदानं तेन । 'यथाऽसादृश्ये' इत्यव्ययीभावः समासः । अभिलषितप्रतिदिनराजतदानेनेत्यर्थः । किम्भूतान् साधून् ! अध्ययनाय पठनायोयुक्तानुद्यमिनः, अपर्यध्ययनानित्यर्थः । अध्ययनाय परिग्लानः पर्यध्ययनः । किम्भूतो मन्त्री? ज्ञानदानाय उत्कमुत्सुकं मानसं ननो यस्यासौ ज्ञानदानोकमानसः । किम्भूतानां न्यायशास्त्रविदाम् ? विद्यानां षडङ्ग्यादिचतुर्दशसंख्यानां पारं पर्यन्तं पश्यन्तीति विद्यापारदृशस्तेषां विद्यापारदृशाम् ॥ २५१-२५२ म. क. वं० प्र०६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122