Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२७२-२७७ ]
पाठकश्रीजयसोमविरचित धराधीशोऽवदत् सर्व वस्तु वेविद्यतेऽद्य मे।
उद्यमस्तु त्वया कार्यः पूर्वजेप्साप्रपूरणे ॥ २७२ व्याख्या-मत्रिणं प्रति धराधीशः कल्याणमल्लोऽवदत् अब्रवीत् - हे मन्त्रिन् ! सर्व वस्त्यद्य मे मम वेविद्यते अतिशयेन विद्यते वेविद्यते । विदिंच सत्तायां यङि रूपम् । तत्रार्थे न काऽपि स्पृहा । परन्तु विशेषे विशेषेण पूर्वजस्य श्रीविक्रमभूपतेर्येप्सा वाञ्छा, तस्याः प्रपूरणे निष्ठानयने, त्वया मन्त्रिणोद्यम उद्योगः कार्यः । ईप्सेति – 'आपलं व्याप्ती', आपूज्ञपीती- 5 त्वमभ्यासलोपः । अः प्रत्ययादिति प्रत्ययान्तधातो वादौ स्त्रियामः स्यात् । वाञ्छार्थस्तु क्रियाकलाप उक्तः - 'इच्छति वाञ्छति काङ्गति कामयते लिप्सते वष्टि ईप्सत्यपेक्षते चेत्यादि ॥ २७२ तामेव पूर्वजेच्छामाह
योकामपि घटिकां गचाक्षमारुह्य सुर
तिष्ठामि सारणेश्वर ! तदा करिष्ये कमलपूजाम् ॥ २७३ व्याख्या-हे सारणेश्वर ! यदि चेदेकामपि घटिकां सुभटपुरदुर्गे योधपुरकोटे, गवाक्षं वातायनमारुह्य अध्यास्य तिष्ठामि तदा त्वत्पुरः कमलपूजां लोकरूढ्या शिरसाऽर्चाम् , करिष्ये विधास्ये ॥ २७३
दुःसाधामिति सन्धां सफलयितुं विक्रमाहराजस्य ।
श्रीराजसिंहसहितोऽनु चचार जलालदीसाहिम् ॥ २७४ व्याख्या- इति पूर्वोक्तां योधपुरदुर्गगवाक्षावस्थानलक्षणाम् , विक्रमाहराजस्य विक्रमनृपतेः, दुःसाधां दुःखेन । साध्यत इति दुःसाधा ताम् , सन्धां प्रतिज्ञाम्, सफलयितुं सफलीकर्तुम् , श्रीराजसिंहसहितः श्रीकर्मचन्द्रमन्त्री जलालदीसाहिमकबरपातसाहिमनु चचार । साहेः समीपे जगामेत्यर्थः । अनु सन्निधौ
'अनु लक्षणवीप्सेथम्भूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ।।' 'सन्धा स्थिति-प्रतिज्ञयोः ॥ २७४
सेवाकृत्यविधानैस्तथाऽधिकं खामिमानसं येन ।
विहितं प्रमोदपात्रं यथा तदन्यत्र न च रेमे ॥ २७५ व्याख्या-येन श्रीकर्मचन्द्रेण श्रीराजसिंहसहितेन, सेवा च परिचर्या, कृत्यानि च वैरिप्रतिघातादीनि तेषां विधानः करणः, तथा तेन प्रकारेण, स्वामिमानसं साहिचित्तम् , अधिकमतिशयेन प्रमोदपात्रं प्रीतिभाजनं विहितम् । यथा तत् साहिमानसम् , अन्यत्रोम्बरादौ, न च रेमे न च चिक्रीड । तस्मिन्नेव मन्त्रिणि साह्लादं मन आसीदिति भावः ।। २७५
यद् यद् विषमं कृत्यं श्रीसिंहबलान्महामतिर्मन्त्री।
तत्तत् साहिनियुक्तं साधितवान् लीलयैवाहो! ॥ २७६ व्याख्या- महामतिर्महाधिषणो मन्त्री श्रीकर्मचन्द्रः, यद्यत् कोट्टग्रहणादि विषमं कठिनं कृत्यं श्रीसाहिनियुक्तं श्रीअकबरपातसाहिना दत्तं, तत् तत् कृत्यं, श्रीसिंहबलात् श्रीराजसिंहसामर्थ्यात् , लीलयैव क्रीडयैव, साधितवान्निष्पादितवान् । अहो इति विस्मये ॥ २७६
साहिप्रसादयोगाद् योधपुराधीशतां समासाद्य ।
कल्याणमल्लराजो येन गवाक्षे पुरा न्यस्तः ॥ २७७ व्याख्या-येन श्रीकर्मचन्द्रेण साहिप्रसादयोगाद, योधपुराधीशतां योधपुरैश्वर्यम् , समासाद्य प्राप्य, कल्याणमल्लराजो गवाक्षे योधपुरवातायने, पुरा सकलकृत्यकरणात् पूर्व न्यस्तः स्थापितः ॥ २७७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122