Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२९७-३०२]
पाठकश्रीजयसोमविरचित यनकृते निजपुण्यप्रासादे यश्चकार सुविवेकी।
अर्बुदतीर्थावनतः सकलशदण्डं ध्वजारोपम् ॥ २९७ व्याख्या-यः सुविवेकी सुष्टु विवेकवान् श्रीकर्मचन्द्रः, यत्नस्तीर्थयात्रादिकरणप्रयत्नस्तेन कृतो निष्पादितो यनकृतस्तस्मिन् यत्नकृते, निजपुण्यप्रासादे खसुकृतदेवगृहे, अर्बुदतीर्थस्य मुद्गलकृतोपद्रवाद् यदवनं रक्षणमर्बुदतीर्थावनं तस्मात् । पञ्चम्यास्तसिल । कलशश्च सौवर्णः कुम्भः, दण्डश्च सौवर्ण एव ताभ्यां सहितं सकलशदण्डं ध्वजारोपं पताकान्यासं चकार । । प्रासादस्तदैव पूर्णो जातः कथ्यते यदा तत्रोपरि कलशदण्डध्वजानामारोपः कृतः स्यात् । तथाऽनेन श्रीमन्त्रिणा यज्ञकृतः पुण्यप्रासादोऽर्बुदतीर्थरक्षणात् कलशदण्डध्वजमण्डितः कृत इति मन्यामहे ॥ २९७
राष्ट्रकूटकुलोत्तंसराजसिंहप्रसादतः।
मोचिता येन लोकानां बन्दी च समियानके ॥ २९८ व्याख्या-येन श्रीकर्मचन्द्रमन्त्रिणा, राष्ट्रकूटकुले राष्ट्रकूटान्वय उत्तंस इव शेखर इव यो राष्ट्रकूटकुलोत्तंस एवं- " विधो यो राजसिंहस्तस्य प्रसादतोऽनुग्रहातू , समियानके बन्दी च मोचिता । सैनिककराद् विमोच्य खस्थानं नीतेत्यर्थः । हठाकृष्टा स्त्रीर्बन्दी बलवतो हस्ते क्षिप्तो राजपुत्रादिश्च ।। २९८
आ त्रयोदशमासं यः पञ्चत्रिंशेऽथ वत्सरे।
पवित्रं सत्रमारेभे दुर्भिक्षे सार्वदेशिके ॥ २९९ व्याख्या- यः श्रीकर्मचन्द्रः, अथेति मङ्गलार्थः । विक्रमतः शरदां षोडशसु शतेषु व्यतीतेषु सप्तदशशतसम्बन्धिनि । पश्चत्रिंशे वत्सरे वर्षे, आ त्रयोदशमासं त्रयोदशमासान् आ मर्यादीकृत्य आ त्रयोदशमासम् । 'आमर्यादाभिविध्योः' इत्याल सीमाद्यर्थः । पञ्चम्या समस्यते वा, स प्राक्संज्ञः । आमुक्तिसंसार आमुक्तेरितिवत् । 'आङ् मर्यादावचन' इत्याङ् कर्मप्रवच
पावनं सत्रं सदादानम् , सार्वदेशिके सर्वदेशे भवं सार्वदेशिकम् । 'अध्यात्मादेष्ठनिष्यते'। तस्मिन् सार्वदेशिके दुर्भिक्षे दुष्काले आरेभे आरब्धम् । पञ्चत्रिंश इति 'तस्य पूरणे डट्' इति षष्ठ्यन्तात् संख्यावाचिनः पूरणेऽर्थे डट् स्यात् । पञ्चत्रिंशतां पूरणः पञ्चत्रिंश इति ॥ २९९
रोगग्रस्तावलक्षीणजनानां यः कृपानिधिः।
पथ्यौषधप्रदानं च निर्ममस्तत्र निर्ममौ ॥ ३०० व्याख्या-च पुनः, यः कृपानिधिः करुणानिधानं श्रीकर्मचन्द्रः, तत्र सत्रशालायाम् , ममेति आत्मसम्बन्धेऽव्ययम् , निर्गता ममेति बुद्धिरस्मादसौ निर्ममः, द्रव्ये निःस्पृह इत्यर्थः । एवंविधः सन्, रोगेण आमयेन प्रस्ताः पीडिताः, अबलाः शरीरादिसामर्थ्यरहिताः, क्षीणा राजयक्ष्मादिना क्षयं प्राप्ता ये जना लोकाः तेषां पथ्यं हितं यदौषधं भेषजम् , यद्वा पथ्यमौषध- 25 मेदः पथ्यं चौषधं च पथ्यौषधे तस्य तयोर्वा यद्दानं तन्निर्ममौ व्यधात् । पथोऽनपेतं पथ्यं 'हृद्यपद्य-इति साधुः ॥ ३००
अतिसारामयग्रस्तांस्त्रस्तान् कूरकरम्भकैः।
प्रीणयामास पुण्यात्मा सत्रशालासु मानवान् ॥ ३०१ व्याख्या-यो मानवान् - मानश्चित्तोन्नतिस्तद्वान् श्रीकर्मचन्द्रः, सत्रशालासु त्रस्तान् रोगभयविह्वलान् अतिसारामयेन रोगविशेषेण प्रस्तान् पीडितान् जनान् , कूरं भक्तं करम्भकाश्च दध्युपसिक्ताः सक्तवस्तैः कृत्वा प्रीणयामास तोषयामास । " निरामयानकरोदित्यर्थः । किम्भूतो मन्त्री ! पुण्यात्मा पवित्रात्मा, व्यथितनिय॑थीकरणे पुण्यात्मत्वमेव हेतुः। यो हि पुण्यात्मा भवति स एव किल कृपया सहजः पथ्यादिना नीरुजः करोति ॥ ३०१
न सा ज्ञातिन सा जातिर्न तद्गोत्रं न तत्कुलम् ।
नावष्टब्धो ह्यमात्येन यत्र जातो नरव्रजः ॥ ३०२ व्याख्या-सा ज्ञातिः खजनो न, सा जातिर्ब्राह्मणादिन, तद्गोत्रमन्वयो न, तत्कुलमुग्रादि न, यत्र ज्ञास्मादौ जात: म. क..प्र. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122