Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 52
________________ २६०-२६६ ] पाठक श्रीजय सोमविरचित ४३ व्याख्या - स पुण्यात्मा - पुण्यः पावन आत्मा यस्याऽसौ पुण्यात्मा श्रीसङ्ग्रामः, एवममुना प्रकारेण, श्रीजिनशासनसमुन्नतिं श्रीजिनशासनोदयम्, सर्वतः सर्वासु दिक्षु, समाधाय संस्थाप्य, कलिकाले कलियुगे, अकलङ्को निरपवादः सन्, कालवशोऽभूत् सुरालयं प्रापेत्यर्थः । 'कलङ्कोऽङ्कापवादयोः कालीयसमले चापि' इत्यनेकार्थः ॥ २५९ राज्ञीरत्नावतीकुक्षिरत्नं कल्याणनन्दनाः । रायसिंहो रामसिंहः सुरत्राणश्च पार्थिवः ॥ २६० अन्यपत्नी सुता अन्ये भांग - गोपालनामकौ । अमरो राघवः सर्वे विख्याताः सर्वदाऽभवन् ॥ २६१ - युग्मम् । व्याख्या - कल्याणनन्दनाः कल्याणमल्लनुपपुत्राः सर्वे सर्वदा, विख्याता विश्रुता अभवन् । तानेवाह - राज्ञी - रत्नावत्याः पट्टदेव्याः कुक्षौ रत्नमिव राज्ञीरत्नावतीकुक्षिरत्नं रायसिंहो रामसिंहः सुरत्राणः पार्थराट् पृथ्वीराजश्च । अन्यासां पत्नीनां सुता अन्यपत्नीसुता भांण- गोपालौ अमरो राघव इत्यादयः ॥ २६०-२६१ मन्त्रिसङ्ग्रामसंभूतौ कर्मचन्द्रयशस्विनौ । कर्मचन्द्रः क्रमान्मन्त्रकलासु कुशलोऽभवत् ॥ २६२ व्याख्या - मन्त्रिसङ्ग्रामात् सम्भूतौ जातौ मन्त्रिसङ्ग्रामसम्भूतौ, कर्मचन्द्र - यशस्विनौ विद्येत इति गम्यते । कर्मचन्द्रनामा जसवन्तश्च । तत्र कर्मचन्द्रः क्रमात् क्रमेण, मन्त्रकलाखालोचशिल्पेषु, कुशलश्चतुरोऽभवद् बभूव ॥ २६२ कल्याणमल्ल भूपतिरमात्य पदवीमदात् प्रयत्नेन । यस्य प्रशस्यलक्षणमतिविभवो वीक्ष्य सविशेषम् ॥ २६३ - व्याख्या – कल्याणमल्लभूपतिर्यस्य श्री कर्मचन्द्रस्य, प्रशस्यं प्राप्तश्लाघं यल्लक्षणं हस्तपादादिषूर्ध्वरेखादिचिह्नम्, मतिविभवश्च बुद्धिधनम्, तौ प्रशस्यलक्षण - मतिविभवौ सविशेषं विशेषौ वैशिष्ट्यं तत्सहितं यथा स्यात्तथा, वीक्ष्य विलोक्य, प्रयत्नेन महतोद्यमेन, अमात्यपदवीं मत्रिपदमदाद् ददौ ॥ २६३ शत्रुञ्जयेऽर्बुदे स्तम्भतीर्थे तीर्थे च रैवते । परिवारयुतो यात्रां यः कृत्वा पुण्यवानभूत् ॥ २६४ व्याख्या - यः श्रीकर्मचन्द्रमन्त्री, शत्रुञ्जये विमलगिरौ अर्बुदेऽर्बुदाचले स्तम्भतीर्थे रैवते चोज्जयन्ते, तीर्थे पुण्यक्षेत्रे, परिवारयुतः सपरिच्छदः, यात्रां कृत्वा पुण्यवान् सुकृत्यभूद् बभूव ॥ २६४ श्रीराजसिंहराजेन्द्रो नव्यः कल्पतरुः कलौ । सुमनः सन्ततिं रक्षन् यत्फलत्यनुवासरम् ॥ २६५ व्याख्या - कलौ कलियुगे, श्रीराजसिंहराजेन्द्रो नव्यो नवीनः, कल्पतरुः कल्पशाखी, यद्यस्माद्धेतोः, अनुवासरं प्रतिदिनम्, सुमनः सन्ततिं सुमनः श्रेणिम्, रक्षन् त्रायमाणः सन्, फलति निष्पद्यते । फलू निष्पत्तौ । सुमनसः प्राज्ञाः पुष्पाणि च । अन्यो हि यः कल्पवृक्षो यदा फलति तदा सुमनसां पुष्पाणां सन्ततिं न रक्षति किन्तु पुष्पाण्यपनीय पश्चात् फलति । यतः - 'फलस्य कारणं पुष्पं फलं पुष्पविनाशकम् । धर्मस्य कारणं पुण्यं धर्मः पुण्यविनाशकः ॥ १ ॥' अयं तु सुमनःसन्ततिं रक्षन् फलतीति नवत्वमस्य । अत्र पक्ष सुमनसां प्राज्ञानां सन्ततिं रक्षन्नसौ यथार्थितदानेन फलतीति गर्भार्थः ॥ २६५ Jain Education International आशाभेदाद् भवन्त्यन्ये लोकपाला महीतले । आशासम्पूरणान्नूनं लोकपालोऽयमद्भुतः ॥ २६६ For Private & Personal Use Only 10 15 28 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122