Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
5
10
15
20
30
४६
मन्त्रिकर्मचन्द्र वंशावली प्रबन्ध ।
महामात्य ! कृतं साधु त्वया सन्धाप्रपूरणात् । कल्याण भूपतिस्तत्र स्थित इत्यब्रवीदहो ! ॥ २७८
व्याख्या - कल्याणभूपतिस्तत्र योधपुरगवाक्षे स्थितो निषण्ण इत्यब्रवीत् उवाच । इतीति किम् ? अहो ! इति विस्मये, हे महामात्य ! श्री कर्मचन्द्र ! त्वया सन्धाप्रपूरणात् - श्री विक्रमप्रतिज्ञानिष्ठापनात्, साधु चारु कृतम् ॥ २७८ वाञ्छितं वद यद्देयं तवेत्युक्तवति प्रभौ ।
मन्त्रीशो धर्ममर्मज्ञो वदति स्म कृताञ्जलिः ॥ २७९
व्याख्या - हे मन्त्रिन् ! यत्तत्र देयं ग्रामादि वाञ्छितमिष्टं तत् त्वं वद ब्रूहीति प्रभौ कल्याणमल्लनृपे, उक्तवति कथितवति सति, धर्ममर्म धर्मरहस्यं जानातीति धर्ममर्मज्ञो मन्रीशः श्रीकर्मचन्द्रः कृताञ्जली रचिताञ्जलिः, वक्ष्यमाणं वदति स्म अब्रवीत् ॥ २७९
त्वत्प्रसादान्ममास्त्येव समस्तमपि कामितम् ।
तथापि नाथ ! नाथामि धर्मकृत्यमिति प्रभुम् ॥ २८०
व्याख्या - हे राजन् ! त्वत्प्रसादान्मम समस्तमपि कामितं वाञ्छितं ग्रामाश्वाद्यस्त्येव, तथापि हे नाथ ! स्वामिन् ! प्रभुं त्वां प्रतीति वक्ष्यमाणं नाथामि अभ्यर्थये । अभ्यर्थयते नाथति वृणोति वरयतीत्याथेकार्थाः ॥ २८०
[ २७८- २८४
चाक्रिकाः कुम्भकाराश्च तथा कान्दविका अपि ।
वर्षासु चतुरो मासान् खदेशे सन्तु निष्क्रियाः ॥ २८१
व्याख्या - हे राजन् ! चाक्रिकास्तिलन्तुदाः, कुम्भकाराः कुलालाः, कान्दविका भक्ष्यकाराः, एते सर्वेऽपि वर्षासु प्रावृषि, चतुरो मासान् यावत्, खदेश आत्मीयनीवृति, निष्क्रियाः ख खतिलपीडनादिकर्मव्यावृत्ताः सन्तु । यथा ते चाक्रिकादयः स्वकर्म वर्षासु कर्तुं न लभन्ते तथा आदेष्टव्यमिति भावः ॥ २८१
Jain Education International
अदेयो राजदेयोंऽशो मालाख्यो वणिजां पुरे ।
तथा शुल्केsपि तुर्योऽश एडकादिकरोऽपरः ॥ २८२
व्याख्या - हे राजन् ! वणिजां वाणिजानां पुरे नगरे, मालाख्यो राजदेयः अंशो विभागो न आदेयो ग्राह्यः, तथा शुल्केऽपि तुर्यस्तुरीयः अंशो न आदेयः । शुल्कं घट्टादिदेयम् । तथाऽपरोऽन्य एडका उरभ्रास्त आदौ येषामजादीनां त एडकादयस्तेषां करो राजग्राह्यो भागः सोऽपि न आदेयः ॥ २८२
एवमेवमिति प्रोक्तवाक्याङ्गीकार सूचकम् ।
वाक्यं भूपः प्रपद्याभूद् वाञ्छितार्थविधायकः ॥ २८३
व्याख्या - भूपः श्रीकल्याणमल्लः प्रोक्तं मन्त्रिणा कथितम्, यद्वाक्यं करमोक्षणादिवचनं तस्य योऽङ्गीकारः स्वीकारः, तत्सूचकं तत्पिशुनं प्रोक्तवाक्याङ्गीकारसूचकं एवमेवमिति वाक्यम्, प्रपद्य स्वीकृत्य, वाञ्छितार्थस्य कामितार्थस्य विधायकः कर्ताऽभूत् । एवमेवमिति राभस्ये ( रभसो हर्षः ) द्विरुक्तिः । प्रश्नावधारणार्थ एवमिति । 'एवमुपमानोपदेशप्रश्नावधारणप्रतिज्ञानेषु' ॥ २८३
दत्तमेतन्मयाऽमात्य ! याचितं त्वमतः परम् । अयाचितमिदं प्रीतिप्रदेयं स्वीकुरु स्वतः ॥ २८४
व्याख्या - हे अमात्य ! मन्त्रिन् ! एतत् पूर्वोक्तं मया याचितमभ्यर्थितं दत्तम् । अतः परमेतन्मार्गितदानादूर्ध्वम्, खतः स्वयमिदं वक्ष्यमाणम्, प्रीत्या प्रमोदेन, देयं वितरणीयम्, अयाचितं त्वया खमुखेनामार्गितं स्वीकुर्वङ्गीकुरु ॥ २८४
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122