Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 39
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [१७०-१७५ व्याख्या-सचिवो मन्त्री कमसिंहा, तरन्त्यनेन विद्याम्भोनिधिमिति तीर्थ गुरुः, समाने तीर्थे वसति स सतीर्थ्यः, एवंविधो यः सङ्घः साध्वादिसमुदायस्तेन सङ्गतो मिलितः सन् , श्रीमुक्तालयतीर्थे श्रीशत्रुञ्जये, करो राजग्राह्यो भागस्तेन परिमुक्तां यात्रां चकार । कया ! मुक्तानां कर्मरहितानां य आलयो निलयो मुक्तालयो मोक्षस्तत्स्पृहया वान्छया ॥ १६९ एवं रैवतकेऽद्रौ तथार्बुद-द्वारकादितीर्थेषु । लम्भनिकायुतयात्रा विहिता येनाधिकमेम्णा ॥ १७० व्याख्या-एवममुना प्रकारेण, रैवतकेऽदावुजयन्तगिरौ, तथाऽर्युद-द्वारकादितीर्थेषु, येन श्रीकर्मसिंहेन, अधिकप्रेम्णा अतिशायिनेहेन, लम्भनिका प्रतिगृहमिष्टवस्तुदानं तया युता सहिता, यात्रा विहिता चके। यात्रा चके लम्भनिका च ददे इत्यर्थः॥ १७० लक्षं चैत्यप्रतिष्ठायां लक्षं सूरिपदार्पणे। लक्षं यात्रासु रौप्याणां व्यययामास यः सुधीः ॥ १७१ व्याख्या-यः कर्मसिंहो मन्त्री सद्बुद्धिः चैत्यप्रतिष्ठायां रौप्याणां राजतानां लक्षं, तथा सूरिपदार्पणे जिनहंससूरीणामाचार्यपदसमर्पणे रौप्याणां लक्षं, तथा यात्रासु शत्रुञ्जयादितीर्थयात्रासु रौप्याणां लक्षं व्यययामास । वित्तसमुत्सर्ग त्यागमकार्षीद् । व्ययण वित्तसमुत्सर्गे ॥ १७१ सत्रशाला कृता नेत्रवार्धिभूतेन्दुवत्सरे। चतुर्दशसमाः कल्पपुस्तकं येन चाऽऽददे ॥ १७२ व्याख्या- येन श्रीकर्मसिंहेन मन्त्रिणा, नेत्रवाधिभूतेन्दु(१५४२)वत्सरे सत्रशाला कृता । सत्रं सदादानम् । च पुनर्येन चतुर्दशसमाश्चतुर्दशवर्षाणि यावत् कल्पपुस्तकमाददे कल्पपुस्तकं वाचयामासेत्यर्थः ॥ १७२ भूजानिषु प्रभूतेषु विवाहायाऽऽगतेष्वपि । चित्रकूटेऽकरोच्छोभा विवाहे यो निजेशितुः॥ १७३ 20 व्याख्या- यः कर्मसिंहो मन्त्री, चित्रकूटे विवाहाय पाणिपीडनाय, प्रभूतेषु बहुषु भूजानिषु राजखागतेष्वपि प्राप्ते___ष्वपि, निनेशितुः स्वस्वामिनो लूणकर्णस्य, विवाहे शोभा लक्ष्मीमकरोच्चकार । भूरेव जाया यस्य भूजानिः । 'जायाया निडिति' जायान्तस्य बहुव्रीहेर्निङादेशः ॥ १७३ अन्यदा लूणकर्णेन समकं नन्दगोकुले। जगाम वैरिसङ्घातघातनाय स मनावित् ॥ १७४ व्याख्या-अन्यदाऽन्यस्मिन् काले, स मन्त्रविद् रहस्यालोचनं मन्त्रस्तं वेत्तीति मन्त्रविन्मन्त्री कर्मसिंहः, नन्दगोकुले 'नारनउल' इति नाम्नारूढे, वैरिणां यः सङ्घातः समूहस्तस्य घातनाय विनाशाय, लूणकर्णेन समकं सह जगाम ॥ १७४ सङ्ग्रामे वैरिभिः साधं सहसा समुपस्थिते। सुभटाः स्वामिधर्मत्वादन्योऽन्यं प्राहरंस्तराम् ॥ १७५ व्याख्या-वैरिभिः शत्रुभिः सार्धं समं, सहसाऽनालोच्याऽवितर्कितमेव, सङ्ग्रामे युद्धे समुपस्थिते प्राप्ते सति, सुभटा 3} योधाः, स्वामिधर्मत्वात्खामिनः प्रभोर्धर्मो येषां ते खामिधर्माणः । 'धर्मादनिच केवलाद्' इति केवलात्पदा योधर्मशब्दः केवलस्तदन्ताद् बहुव्रीहेरनिच् स्यात् । तद्भावः स्वामिधर्मत्वं तस्मात् । यथैव स्वामी कुरुते तथैव सेवका अपि कुर्वन्तीति भावः । अन्योऽन्यं परस्परं प्राहरंस्तरामतिशयेन प्रहारांश्चक्रुः । प्राहरंस्तरामिति- 'तरतमपौ घः' इति घः । 'किमेत्तिडव्ययघादाम् च द्रव्यप्रकर्षे' इति । 'किम एदन्तात्तिकोऽव्ययाच्च यो घस्तदन्तामुः स्यात् । सहसेति 'सहसाऽऽकस्मिकाविमर्शयोः ॥ १७५ Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122