Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 47
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [२२८ - २३३ व्याख्या-मन्त्री श्रीनगराजस्तूर्ण शीघ्रं पथि वर्त्मनि समागच्छन्, पूर्णो निष्ठां प्राप्तो मनोरथो वैरनिर्यातनादिलक्षणोऽभिलाषो यस्य स पूर्णमनोरथः एवंविधः सन् , अजमेरुपुरे पण्डितमृत्युना पण्डितमरणेन अनशनादिविधिना खर्ग देवालयमगाजगाम ॥ २२७ ततः कल्य 'राजा कल्याणकारणम् । यः खयं सृष्टिरक्षायै विधिना निर्मितः किमु ॥ २२८ व्याख्या-ततोऽनन्तरम् , साहिना खकरेण राज्यतिलके दत्ते सति, कल्याणमल्लो राजाऽभूत् । किम्भूतः! कल्याणस्य श्रेयसः कारणं हेतुः । यः कल्याणमल्लः सृष्टिरक्षायै स्वनिर्मितप्रजालक्षणनिर्माणपालनाय खयमात्मना विधिना वेधसा, किमु इति वितर्केऽव्ययम् , निर्मितः सृष्टः । 'सृष्टिः स्वभावे निर्माणे' इत्यनेकार्थः ॥ २२८ ___ येन दानादिधर्मेण कलिः कृतयुगीकृतः। खलाः खण्डीकृता येन वशिना निशितासिना ॥ २२९ व्याख्या-येन कल्याणमल्लेन दानादिधर्मेण आहूय वितरणादिसुकृतेन, कलिरन्त्यो युगः कृतयुगीकृतः कृतयुगाचरणीयाचरणात् कलौ कृतयुगमेवावतारित इत्यर्थः । 'कलिर्बिभीतके शूरे विवादेऽन्त्ययुगे युधि ।' इत्यनेकार्थः। तथा, येन वशिना जितेन्द्रियेण, निशितासिना तीक्ष्णकरवालेन, खला दुर्जनाः, खण्डीकृतास्तिलतिलीकृता दूरीकृता इत्यर्थः । नान्येन खलाः पिण्याकाः खण्डीकतुं मधुधूलितया विधातुं शक्यन्त इति च्छायार्थः ॥ २२९ नगराजमनिराजाङ्गजास्त्रयः पुण्यभाजनं जगति । नावलदेवीजाता जाता जगतीषु विख्याताः ॥ २३० व्याख्या-नगराजमन्त्रिराजस्य अङ्गजाः पुत्रास्त्रयः, जगतीषु भूमिषु, विख्याता विश्रुता जाताः सखाताः। किम्भूताः! जगति विष्टपे, पुण्यभाजनं सुकृतपात्रम् । पुनः किम्भूताः! नावलदेव्यां 'हांसू' इति कुलगृहनाम्ना ख्याताया जाता उत्पन्ना नावलदेवीजाताः ॥ २३० " तानेव पुत्रान् नामत आह तेष्वादिमः सुबुद्धिर्मश्री देवाभिधः सुधावचनः। राणाभिधो द्वितीयो गुणाद्वितीयस्तृतीयोऽथ ॥ २३१ सङ्ग्रामः सङ्ग्रामे लब्धजयो ग्रामणीरमात्येषु । भाग्यबली बलकलितः कल्याणनरेन्द्रसम्मान्यः ॥ २३२ -युग्मम् । व्याख्या-तेषु त्रिषु पुत्रेषु मध्य आदिमः प्रथमो देवाभिधो मन्त्री बभूवेति गम्यते । किम्भूतः ? सुबुद्धिः शोभना जिनागमश्रवणप्रवणा बुद्धिीर्यस्यासौ सुबुद्धिरिति खरूपनिरूपकं विशेषणम् । पुनः किम्भूतः ! सुधावन्मृष्टं वचनं गीर्यस्थासौ सुधावचनः । तथा द्वितीयः पुत्रो राणाभिधः। किम्भूतः ? गुणैर्दानशौण्डत्वादिभिरद्वितीयः असम एतत्समो गुप्तदानादिदाता नान्य इत्यर्थः । अथानन्तरं तृतीय उच्यते सङ्कामो मन्त्री । किम्भूतः ! सङ्ग्रामे रणे लब्धः प्राप्तो जयो विजयो येन स लब्धजयः । तथाऽमात्येषु मन्त्रिषु ग्रामणीर्मुख्यः । तथा भाग्यस्यैव बलं सामर्थ्य यस्यासौ भाग्यबली। तथा बलेन सैन्येन ३० कलितः सहितः । तथा कल्याणनरेन्द्रेण कल्याणमल्लनृपेण सम्मान्यः सत्करणीयः ॥ २३१-२३२ देवाङ्गजास्त्रयोऽमी मेहाजलाभयमाननामानः । राणासुतः सुधोपमवचनतयाऽभूदमृतनामा ॥ २३३ व्याख्या- अमी मेहाजलाद्यास्त्रयो देवाङ्गजा देवामत्रिपुत्राः । राणासुतो मन्त्रिराणापुत्रोऽमृतनामाऽभूत् । नन्वमृतेति नाम तस्य कथमवादिषुः? इति तत्कारणमाह-सुधोपमवचनतया सुधोपमममृतसमं वचनं यस्यासौ सुधोपमवचनस्तद्भावस्तत्ता तया, अमृतसमवाक्यवक्तृत्वेनामृत इति नाम कथयामासुरित्यर्थः ॥ २३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122