Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 34
________________ १३३ - १३७] पाठकश्रीजयसोमविरचित विशिष्टबुधेन सहितो यो गुरुहस्पतिस्तस्य । शाकपार्थिवादित्वान्मध्यपदलोपी समासः। यद्वा विबुधा देवास्तेषां गुरुराचार्यों बृहस्पतिस्तस्य सान्निध्यात् । केन्द्रे सन्निधानान्महन्माहात्म्यं दोषक्षयलक्षणं भवति । यदुक्तं रत्नमालायाम् - 'दोषाणां शतमपहन्ति सोमपुत्रः, केन्द्रस्थो धूनमपहाय दृश्यमूर्तिः । दैत्यो ज्याद्विगुणमिदं बलीयानाचार्यः शमयति लक्षमप्यवश्यम् ॥ बुधः सप्तमं परित्यज्य अन्यकेन्द्रस्थो दोषाणां लत्तापातवेधवर्जमन्येषां शतं हन्ति । शतशब्दो बहुत्ववाचकः । शुक्रः । पुनः सप्तमवर्ज केन्द्रस्थो बुधाद् द्विगुणफलः । गुरुस्तु सप्तमवर्ज बुध-शुक्राभ्यां सहस्रबलः । एतेषु केन्द्रस्थेषु विवाहः श्रेष्ठ इति तद्वृत्तौ ॥ १३२ राजद्वारे ववृधे सगुणं तेजोऽस्य पुण्ययोगेन । दिनवृद्धियुतं सवितुस्तेज इव प्राप्य सदुदीचीम् ॥ १३३ व्याख्या- अस्य वत्सराजस्य राजद्वारे विक्रमनृपसदसि, पुण्ययोगेन पूर्वकृतसुकृतसंयोगेन, सगुणं गुणैरौदार्यधैर्य- 10 शौर्यादिभिः सहितं, तेजः प्रतापो, ववृधे वृद्धिमाप । गुणा अवर्धन्त । तेजोऽप्यवर्धत । कां प्राप्य कस्य किमिव ? -उदीचीमुत्तरां प्राप्य, दिनवृद्धियुतं, सवितुः सूर्यस्य, सत्प्रधानं तेज इव धामेव । यथोदीची प्राप्योत्तरायणे दिनवृद्ध्या युतमन्वितं वेस्तेजो वर्धते । उत्तरायणे हिमकरादितो दिनान्यपि वर्धन्ते रवेस्तेजोऽपि वर्धते । 'तेजस्त्विरेतसोबले, नवनीते प्रभावेऽनौ' - प्रभावः प्रताप इति ॥ १३३ विश्वासास्पदमभवद् मतिविभवादू राज्यकार्यकारित्वात् । सचिवस्तदेव वस्तूच्यते बुधैर्यत् स्वकार्यकरम् ॥१३४ व्याख्या-सचिवो वत्सराजमन्त्री, मतिविभवाद् बुद्धिधनात् , राज्यकार्याणि करोत्येवंशीलो राज्यकार्यकारी तद्धावो राज्यकार्यकारित्वं तस्मात् । विश्वासास्पदं राज्ञो विश्रम्भाश्रयोऽभवत् । यद् यस्मात्तदेव, बुधैः पण्डितैर्वस्तूच्यते कथ्यते । यत् खकार्यकरं खकार्यकर्तृ । 'यदेव कार्यकारि तदेव परमार्थसद्' इत्युक्तेः ॥ १३४ प्रष्टव्यो भूभर्तुमनेषु विचित्रवस्तुविषयेषु । मन्त्रीश्वरो विचारे चतुरोऽभूद् वत्सराजोऽत्र ॥१३५ व्याख्या- 'रहस्यालोचनं मन्त्रः' अत्र कोडिमदेसरसि, मन्त्रीश्वरो वत्सराजो, भूभर्तुर्विक्रमस्य, विचित्रवस्तुविषयेषु नानाविधराजकार्यगोचरेषु मन्त्रेषु, प्रष्टव्योऽनुयोक्तव्योऽभूत् । किम्भूतः? विचारे सदसद्विमर्शो विचारस्तस्मिन् , चतुरः कुशलः॥१३५ विधिवच्चतुर उपायान् सामादीन् यो विधाय मतिकलितः। उपधाशुद्धो राज्यं शशास सुमनोमनोभिमतः॥१३६ व्याख्या-यो वत्सराजः, चतुरश्चतुःसंख्यान् , सामादीन् सामदानभेददण्डरूपान् , उपाया द्रव्योपार्जनहेतवस्तान्, विधिवद् यथोक्तविधिना, विधाय कृत्वा, राज्यं शशास पालयति स्म । किम्भूतः ! मतिकलितः सद्धिषणः । पुनः किम्भूतः? उपधाशुद्धः-भिया धर्मार्थकामैश्च याऽमात्यानां परीक्षा सोपवेत्युच्यते तया शुद्धो निर्दोषः । शुद्धस्वर्णवत्परीक्षाप्राप्त इत्यर्थः । तथा सुमनसां प्राज्ञानां मनस्यभिमतोऽभीष्टः । साम सान्त्वनं दानं वितरणमुपजापः पुनर्भेदो दण्डः स्यात् साहस, विधिवदिति विधिमहतीत्यर्हार्थे वतिः॥१३६ परभूमीपश्चाननबिरुदं सम्प्राप्तवान् स भाग्येन । कृतसङ्घः शत्रुञ्जयशैलादिषु संव्यधादू यात्राम् ॥ १३७ व्याख्या-स वत्सराजः, 'पर भूमी पश्चा न नेति बिरुदं लोकप्रसिद्धं प्रवादं, भाग्येन भागधेयेन, सम्प्राप्तवान् । तथा कृतः सङ्घो लोकप्रसिद्धो येन स कृतसङ्घः, शत्रुञ्जयशैलादिषु विमलाचलप्रभृतितीर्थेषु, यात्रां संव्यधाच्चकार ॥ १३७ म. क.वं. प्र.४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122