Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 19
________________ S 10 मन्त्रिकर्मचन्द्रवंशावलीप्रबन्ध | [ ४० - ४४ व्याख्या – अथेति मङ्गलार्थोऽनन्तरार्थो वा । 'अथ समुच्चये, मङ्गले संशयारम्भाधिकारानन्तरेषु च । इत्यनेकार्थः । तत्र (खे) डिनगरे, राज्ञी रत्नावती, सुतैः समधरादिभिश्चतुर्भिः पुत्रैः सहिता, ससुखं यथा समाधानं पितुर्गृहे कुलगृहे, तस्थौ स्थितवती । हि विशेषे । विशेषेण चत्वारोऽपि पुत्राः, क्रमतः क्रमेण वयः कलादिपरिपाट्या, परामतिशायिनीं वृद्धिं वर्धनं प्रापुरासेदिवांसः । 'हि हेताववधारणे विशेषे पादपूत च' इति । 1 १० व्याख्या - तत्र पे (खे) डिनगरे, पुण्यवशात् पूर्वंकृतसुकृतवशाद्, बहुसाधुबन्धुरा यतिसमुदायसुन्दराः, खरतरसूरिजिनेश्वरगुरवः श्रीखरतरगच्छाधीश्वर श्रीजिनेश्वराचार्याः, धरापीठं महीमण्डलं, पवित्रयन्तः शुचीकुर्वन्तः समवसृताः प्राप्ताः ॥ ४० शुभशकुन राशिसूचित भाविमहालाभनिश्चयाः[तत्र] । विजिहीर्षवोऽप्यकार्षुर्वर्षावासं स्वतस्तेऽपि ॥ ४१ व्याख्या - ते श्रीजिनेश्वरसूरयस्तत्र पे (खे) डिनगरे, शुभशकुनराशिना प्रवेशार्हशकुनसमूहेन, सूचितो दर्शितो, भाविमहालाभनिश्चयो भविष्यत्कुमारप्रतिबोधादिमहालाभनिर्णयो येषां ते शुभशकुनराशिसूचितभाविमहालाभनिश्चयाः, विजिहीर्षवोऽप्यन्यत्र विहारं कर्तुमिच्छवोऽपि खतोऽपि न केवलं श्राद्धाग्रहेणैव किन्तु खरसेनाऽपि, वर्षावासं वर्षासु प्रावृषि वासो 15 वर्षावासस्तं वर्षाचतुर्मास्यवस्थानमकार्षुर्विदधिरे ॥ ४१ 33 'वृद्धिः कलान्तरे हर्षे, वर्धने भेषजान्तरे । श्रद्धाऽऽस्तिक्येऽभिलाषे च' इति ॥ ३९ खरतरसूरिजिनेश्वरगुरवो बहुसाधुबन्धुरास्तत्र । समवसृताः पुण्यवशात् पवित्र्यन्तो धरापीठम् ॥ ४० शिष्टजनः सन्तुष्टः पुष्टः समभूद्दिने दिने धर्मः । शासनसुरी निशायामथान्यदाऽऽख्याद् गुरोः खमे ॥ ४२ व्याख्या - तत्र गुरूणां व्याख्यान श्रवण सम्यगाचरणदर्शनादिना शिष्टजनः साधुलोकः, सन्तुष्टः सम्यग्जहर्ष । तथा दिने दिने प्रतिदिनं, धर्मोऽई प्रणीतः श्राद्ध-साध्वाचारः, पुष्टो विधिमार्गोद्दीपनेनापुष्यत् । अथानन्तरमन्यदाऽन्यस्मिन् काले, 2" शासनसुरी जिनशासनदेवता, निशायां रात्रौ खमे सुप्तज्ञाने, गुरोः श्रीजिनेश्वराचार्यस्य, वक्ष्यमाणमिदमाख्यात् कथयामास । 'खमः खापे सुप्तज्ञाने' इत्यनेकार्थः । सुप्तस्य ज्ञानं बोधो दर्शनं वा सुप्तज्ञानं तत्रेति तद्वृत्तौ ॥ ४२ अथ शासनदेवतोक्तमाह - युष्माकमवस्थानं स्थानेऽस्मिन् धर्मलाभतः स्थाने । धनविद्याङ्गसुखानां लाभाभावे न तत्कार्यम् ॥ ४३ व्याख्या - हे गुरवो ! युष्माकमस्मिन् स्थाने सन्निवेशे, धर्मलाभतो धर्मप्राप्तेः, अवस्थानमवस्थितिः, स्थाने युक्तम् । यतो धनविद्याङ्गसुखानां द्रव्यविद्याशरीरसमाधीनां, लाभाभावे प्राप्त्यभावे, तदवस्थानं न कार्यं न करणीयम् । उक्तं च 'यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः । शरीरे च सुखं नास्ति न तत्र दिवसं वसेत् ॥ १ गुणिनः सूनुतं शौचं प्रतिष्ठा गुणगौरवम् । अपूर्वंज्ञानलाभश्च यत्र तत्र वसेत् सुधीः ॥ २ । इति । 'स्थाने तु कारणे युक्ते साम्येऽपि' इत्यनेकार्थः ॥ ४३ प्रतिबोधमवाप्स्यन्ति श्रीमजिनशासनोन्नतिप्रवणाः । नूनं राजकुमारा युष्मन्मुखदेशनाश्रवणात् ॥ ४४ व्याख्या - नूनं निश्चितं, हे गुरवो ! युष्मन्मुखदेशना श्रवणाद्युष्मद्वदनारविन्द विनिर्गतव्याख्यानश्रवणात्, श्रीमज्जिनशासनोन्नतिप्रवणाः श्रीमज्जिनशासनस्य योन्नतिरुदय उद्भासनमित्यर्थस्तत्प्रवण स्तत्परायणाः, राजकुमाराः समधराधाः, प्रतिबोधं सम्यक्त्वादिलाभम्, अवाप्स्यन्ति लप्स्यन्ते । राजकुमाराः प्रतिभोत्स्यन्त इत्यर्थः ॥ ४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122