Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
९५ - १०० ]
पाठक श्री जय सोमविरचित
१९
व्याख्या - तस्येति गम्यते । तस्य उदाकस्य उछरङ्गदेवीति नाम्ना रामाऽभूदित्यध्याहियते । किम्भूता ! गुणैः सुशीलत्वादिभी रञ्जितमावर्जितं भूवलयं धरामण्डलं यया सा गुणरञ्जितभूवलया । तथा सत्या शोभनया कलया विज्ञानेनाऽलङ्कृता विभूषिता । तथा निम्नीकृतमधरीकृतं, निजरूपेण रतेः कामकान्ताया, रूपं सौन्दर्यं यया सा निम्नीकृतरतिरूपा ॥ ९४ समभूतां तत्तनयौ सनयौ नरपाल - नागदेवाख्यौ । उपगुरुगृहीतविद्यौ सद्यः सन्नासितावद्यौ ॥ ९५
व्याख्या - तस्य उदाख्यस्य मन्त्रिणस्तनयौ पुत्रौ तत्तनयौ, नरपाल - नागदेवाख्यौ नरपाल-नागदेवनामानौ, समभूतामभवताम् । किम्भूतौ ? सनयो नयो नीतिस्तत्सहितौ सनयौ । तथोपगुरुः गुरोः समीपे, गृहीता स्वीकृता, विद्या मातृका - दिपाठो, याभ्यां तौ । गुरुं विनाऽधीता हि विद्या न यशस्करी भवति ।
यतः - 'नहि भवति निर्विगोपकमनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं पश्यत नृत्यं मयूरस्य ॥'
तथा सद्यस्तत्क्षणात्, सन्त्रासितं दूरीकृतमवद्यं दूष्यं पापं याभ्यां तौ सन्त्रासितावद्यौ । 'अवद्यपण्यवर्यगर्ह्य पणितव्या 10 निरोधेषु' इत्येते यदन्ता निपात्यते गर्ह्याद्यर्थे । अवद्यमनिष्टम् । नरपालादियं जाणाणी शाखा समभूदिति श्रुतिः ॥ ९५ इह नागदेवपत्नी नवरं नवरङ्गदा सदा पत्यौ । सदपत्या घृतसत्या बभूव नारिङ्गदेवीति ॥ ९६
व्याख्या - इह वंशे नागदेवस्य पत्नी नारिङ्गदेवीति बभूव । नवरं केवलं सदा पत्यौ भर्तरि नवं रङ्गं नृत्यभूमिं ददातीति नवरङ्गदा प्रमोदाद्वैतजनिकेत्यर्थः । 'रङ्गः स्यान्नृत्तयुद्धवोः रागे' इति । पुनः किम्भूता ! सदपत्या सच्छोभनमपत्यं 15 सन्तानो यस्याः सा सदपव्या । तथा धृतं सत्यं सद्भूतं यया सा धृतसत्या सत्यवचनवादिनीत्यर्थः । 'णवरं केवले' केवलेऽर्थे णवरमिति प्रयोक्तव्यम् । प्राकृतेऽव्ययाधिकारे । नवरमिति संस्कृते जैनागमप्रसिद्धम् ॥ ९६
पुत्रौ जेसल - वीरमनामानौ तस्य भाग्यसौभाग्ये । मन्ये मूर्तिमती इव सञ्जातौ जातुचिदवियुतौ ॥ ९७
व्याख्या - तस्य नागदेवस्य, जेसल - वीरमनामानौ पुत्रौ सञ्जातावुत्पन्नौ । मन्ये शङ्के, मूर्तिमती मूर्त्ते भाग्यसौभाग्ये भाग्यं च भागधेयं, सौभाग्यं च चक्षुष्यता सुभगता ते इव । एतत्पुत्रद्वयव्याजेन मूर्ते भाग्यसौभाग्ये स्तः । किम्भूतौ ? जातुचित् कदाचिदपि, अवियुतौ न वियुक्तौ । जात्विति कदाचिदर्थे । तयोर्मध्ये वीरमात् 'डुङ्गराणी' शाखा प्रवृत्तेति प्रवादः ॥ ९७ जेसलभार्यौदार्यात् कल्पलतेवाऽभवन्महीवलये ।
जसमादेवीत्यभिधा विशुद्धकुलजातिसम्भूता ॥ ९८
व्याख्या - तत्र जेसलस्य भार्या वधूर्जसमादेवीव्यभिधाऽभवत् । किम्भूता ? महीवलये भूमण्डल औदार्यादुदात्ततया कल्पलतेव कल्पवल्लीव । पुनः किम्भूता ? विशुद्धं विमलं यत्कुलं पितृसमुत्थं जातिर्मातृकपक्षः । 'ऋतष्ठन् ' सूवुञोऽपवादो होतृकं मातृकं पैतृकम् । तत्र सम्भूता जाता । तज्जाता हि सन्ततिः प्रतिपन्ननिर्वाहिका भवतीति कुलजातिविशुद्धेर्भणनम् ॥ ९८ तत्पुत्राः सुपवित्रास्त्रयोऽभवंस्तेषु वत्सराजाख्यः ।
प्रथमोऽथ देवराजो गुणाद्वितीयो द्वितीयोऽभूत् ॥ ९९
व्याख्या - तस्य जेसलस्य पुत्रास्तत्पुत्राः सुपवित्रा अतिशयेन पावनाः, त्रयोऽभवन् बभूवुः । तेषु पुत्रेषु मध्ये वत्सराजाख्यो वत्सराजनामा पुत्रः प्रथमोऽभूत् । अथेति मङ्गलार्थः । द्वितीयो देवराजोऽभूत् । किम्भूतः ? गुणैरद्वितीयो - समोऽनन्यसाधारण गुणवानित्यर्थः ॥ ९९
Jain Education International
पुत्रोऽथ हंसराजो विराजितो राजहंस इव नव्यः । भव्यस्तृतीय एवं त्रयोऽपि वर्गा इव प्रथिताः ॥ १००
For Private & Personal Use Only
20
25
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122