Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 23
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [६४-७० तत्पुत्रः सङ्घपतिल्हाख्योऽभूत् प्रभूतसम्पत्तिः। वीनादेवी नाना पत्नी तस्याभवद्धन्या ॥ ६४ व्याख्या-तत्पुत्रस्तस्य श्रीतेजपालस्य पुत्रः सूनुः, सङ्घपतिः सङ्घाधीशोऽभूजज्ञे । किम्भूतः ? प्रभूता बढी सम्पत्तिः सम्पद्यस्य स प्रभूतसम्पत्तिः। तस्य वील्हाख्यस्य सङ्घपतेर्वीनादेवीति नाम्ना, पत्नी जाया, धन्या पुण्ययुताऽभवद् बभूव ॥६४ कडुआ-धरणा-नन्दाभिधानपुत्रत्रयान्वितः प्रयतः। निजकधनं सत्क्षेत्रे नियोजयन् योजयन्मुदिरम् ॥ ६५ व्याख्या- यः प्रयतः प्रयत्नवान् धर्मकर्मणि सोद्योगः सन् , निजकधनमात्मीयद्रविणं, सत्क्षेत्रे जिनभवनादौ, नियोजयन् व्यापारयन् ददान इत्यर्थः। मुदिरं घनाघनम् , अजयजिगाय । दानेन मेघमधश्चकार । दानशौण्ड इत्यर्थः । किम्भूतः ? कडुआ-धरणा-नन्दाभिधानं यत्पुत्रत्रयं तेनान्वितो युक्तः ॥ ६५ शत्रुञ्जयोजयन्ताभिधानजैनानवद्यतीर्थेषु । ___ यः सङ्घयुतो यात्रां चक्रे सङ्घ च सच्चके ॥ ६६ व्याख्या-यो वील्हाख्यः सङ्घाधिपतिः, शत्रुञ्जयोज्जयन्ताभिधानानि यानि जैनानि जिनसत्कानि, अनवद्यतीर्थानि निष्पापपुण्यक्षेत्राणि, तेषु सङ्घयुतः साधुश्राद्धादिपूगसमेतः, यात्रां चक्रे । च पुनः सई सच्चके । वस्त्रानपानादिदानेन सत्कृतवान् । सङ्घपूजां व्यधत्तेत्यर्थः ॥ ६६ यावज्जीवं प्रददे पारणकं पर्वपौषधस्थानाम् । श्राद्धानां विविधान्नप्रधानपक्कान्नपानाचैः॥ ६७ ___ व्याख्या-य इति गम्यते । यो वील्हाख्यः स शो यावज्जीवं यावदायुः, पर्वपौषधस्थानां पर्वाण्यष्टम्यादितिथयस्तत्र यत्पौषधं त्रिविधचतुर्विधाहारपरित्यागरूपो व्रतविशेषस्तत्र तिष्ठन्तीति पर्वपौषधस्थास्तेषां श्राद्धानां, विविधान्नैर्नानाविध शालिदालिरूपभक्तैः प्रधाना ये पक्कान्नपानाद्याः सिंहकेसर-जयलब्धिका-लपनश्री-घृतपूर-शर्करा-द्राक्षादिपानप्रभृतयः । आधग्र३० हणात्ताम्बूलादयः । तैः कृत्वा पारणकं पारणां प्रददे । उपोषितस्य भोजनं पारणा ॥ ६७ सुयशोराशिनिदानं दानं दत्त्वार्थिदीनहीनेषु । सुमनाः सुमनाः समभूद् यः स्वीकृतसुकृतपाथेयः ॥ ६८ व्याख्या-यः श्रीवील्हाख्यः सङ्केशः सुमनाः प्राज्ञः, अर्थिनो याचकाः, दीनाः कृपणाः, हीनाः विकलाङ्गास्तेषु, सुयशोराशिनिदानं शोभनकीर्तिश्रेणिकारणं, दान-दीयत इति दानं धनं दत्त्वा, स्वीकृतमङ्गीकृतं सुकृतमेव पुण्यमेव पाथेयं ॐ शम्बलं येन स स्वीकृतसुकृतपाथेयः, सुमना देवः समभूत् । 'सुमनाः प्राज्ञदेवयोः, जात्यां पुष्पे ।' इत्यनेकार्थः ॥ ६८ तदनु कडुआभिधानः सङ्घपतिः सङ्घभारधौरेयः। स्मृत्वा पूर्वजभूमि देशेऽगान्मेदपाटाढे ॥ ६९ व्याख्या- तदनु वील्हास्वर्गारोहानन्तरं, कडुआमिधानः कडुआनामा । 'ग्रामनाम्नो संस्कारः' इति । सङ्घपतिः, पूर्वजभूमिं पूर्वजानां पूर्ववंश्यानां या भूमिरवस्थानक्षेत्रं तां स्मृत्वा, मेदपाटाहे लोकरूढ्या 'मेवार्ड' इति नाम्नि देशे, अगाजगाम । ४० किम्भूतः ? सङ्घभारस्य वहने धौरेय इव धुरन्धर इव सङ्घभारधौरेयः । शाकपार्थिवादित्वान्मध्यपदलोपी समासः ॥ ६९ वसति स्म चित्रकूटे विचित्रकूटे स राजसम्मान्यः। समभूत्तस्य विशिष्टा जने प्रतिष्ठाऽतिभूयिष्ठा ॥ ७० व्याख्या-स कडुआभिधः सङ्घपतिः, विचित्राणि विविधानि कूटानि शिखराणि यस्मिन्नेवंविधे चित्रकूटे, राजसम्मान्यश्चित्रकूटाधीशसत्काराहः सन् , वसति स्म अवात्सीत् । तथा तस्य कडुआकस्य, जने लोके, अतिभूयिष्ठा घना विशिष्टा श्रेष्ठा, 3 प्रतिष्ठा गौरवं समभूत् । सकललोकोपादेयवाक्योऽभूदिति भावः ॥ ७० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122