Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
७१-७६]
पाठकश्रीजयसोसविरचित. मालवकपातिसाहेः समागमं समवगम्य योन्येयुः । राणाकेन जनानां रक्षायै बद्धकक्षेण ॥ ७१ मुक्तः प्रधानवृत्त्या सन्धिं कर्तुं सुलब्धलक्ष्येण।
सन्धि विधाय साहेयवर्तयत् तत्क्षणात् सैन्यम् ॥ ७२ युग्मम् ॥ .. व्याख्या- यः कडुआकोऽन्येधुरन्यस्मिन् काले, राणाकेन चित्रकूटप्रभुणा, मालवपातिसाहेः समागममागमनं, समवगम्य ज्ञात्वा, सन्धि सन्धानमेकत्वं कर्तु, प्रधानवृत्त्या लोकप्रसिद्धया मुक्तः प्रेषितः । किम्भूतेन राणाकेन ? जनानां खनगरनिवासिलोकानां रक्षायै पालनाय, बद्धकक्षेण बद्धा कक्षा येनेति । 'अन्तरीयपश्चिमाञ्चले कक्षा, प्रतिज्ञायामपि' इति महः ।
पुनः किम्भूतेन ? सुलब्धलक्ष्येण शोभनो लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो न्यायव्यवहारो येन स सुलब्धलक्ष्यस्तेन, सन्धि साहिना सह सन्धानं विधाय, तत्क्षणात्तत्समय एव, सद्य इत्यर्थः । साहेः सैन्यं न्यवर्तयन्निवर्तयामास । पश्चाद्वालितवानित्यर्थः ॥ ७२
सर्वोऽपि नगरलोकस्तस्य प्रशशंस बुद्धिमाहात्म्यम् ।
यस्मात्स एव मान्यो, यो लोकं पालयेदशिवात् ॥ ७३ व्याख्या-तस्य कडुआकस्य, सर्वोऽपि समस्तोऽपि, नगरलोकः पुरीजनो, बुद्धिमाहात्म्यं धिषणामहिमानं, प्रशशंस स्तौति स्म । यस्माद्धेतोः स एव पुमान् मान्यः पूजनीयो यो लोकमशिवादुपद्रवात् पालयेद्रक्षेत् । 'मानण् पूजायाम् ।' अनेनापि साहिसेनोपद्रववारणेन जनो रक्षित इति ॥ ७३
तदनु भटैरिह निखिलैर्नागरिकैरपि स मश्रिराज इति ।
प्रोक्तो मनविधानाद् यतो जनाः कृत्यवक्तारः ॥ ७४ व्याख्या-तदनु एवंविधपराशक्यकृत्यकरणानन्तरं, इह चित्रकूटे, भटैर्योधैर्निखिलैरपि समस्तैरपि नागरिकैः पौरैः, स कडुआको, मन्त्रविधानाद् रहस्यालोचनं मन्नस्तस्य विधानात् करणात् , 'मत्रिराज इति प्रोक्तः कथितः। मन्त्रः कर्तव्यावधारणमस्त्यस्य मन्त्री, तेषां राजाऽधिपतिर्मनिराज इति । यतो यस्मात् कारणाजना लोकाः कृत्यवक्तारो विहितकर्माभिधायकाः, येन 20 यादृक्कर्म विधीयते तस्य वक्तारो लोकाः स्युः । अनेन साहिसेनानिवृत्त्यै मन्त्रो विहित इति मन्त्रिराज उक्त इति ॥ ७४ लोकोक्तं बिरुदाख्यानं चिरस्थायि प्रशस्यं च न भवतीति राजप्रतिपादितं तदाह
राज्ञाऽथ सप्रसादं सर्वाङ्गीणाद्भुताभरणदानात् ।
सम्मानितो ददेऽस्मै सचिवाधीशत्वमपि हर्षात् ॥ ७५ व्याख्या-अथ सन्धिकरणानन्तरं, सप्रसादं सानुग्रहं, राज्ञा राणाकेन, सर्वाङ्गानि व्याप्नुवन्ति सर्वाङ्गीणानि यान्य- 25 द्भुताभरणान्याश्चर्यकारिभूषणानि, तेषां दानाद्वितरणात्, सम्मानितः सत्कृतः। तथाऽस्मैकडआख्यसञ्जाधीशाय, हर्षात् प्रमोदात्, सचिवाधीशत्वं मन्त्रीश्वरत्वमपि ददे प्रदत्तम् । 'तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्यामोतीति खः। पूर्वपदस्थनिमित्तादुत्तरपदतद्धितस्थनकारस्य णत्वमिष्यते सर्वाङ्गीण इति प्रक्रियाकौमुद्याम् ।। ७५
तदनु खगोत्रजानां कृतवान् करमोक्षणं प्रयत्नेन ।
प्राप्तोदयोऽत्र रविरिव शूराणां वृत्तिरियमेव ॥ ७६ व्याख्या-तदनु मन्त्रिपदसम्पदवाप्त्यनन्तरं, अत्र चित्रकूटे, स इत्याकृष्यते । स कडुआख्यो मन्त्री, प्राप्तोदयो लब्धोन्नतिः, स्वगोत्रजानां स्वान्वयोत्पन्नानां पुंसां, करमोक्षणं करो राजग्राह्यभागस्तस्य मोक्षणं मोचनं, प्रयत्नेन महोद्यमेन कृतवान् । क इव ? रविरिव श्रीसूर्य इव । सोऽप्युदयाद्रौ प्राप्तोदयः, करमोक्षणं करा रश्मयस्तेषां मोक्षणं सर्वासु दिक्षु प्रवर्तनं तत्करोत्येव । यतः शूराणां वीराणामियमेव वृत्तिर्वर्तनं, यच्छ्ररा लब्धोदयाः करमोक्षणं विदधतीति । शूरः सूर्योऽप्युच्यते । 'शूरः सूरश्च तरणौ' इति शब्दप्रभेदे । 'करः प्रत्यायशुण्डयोः, रश्मौ वर्षोपले पाणौ' इत्यनेकार्थः। प्रत्यायो राजग्राह्य 35 इति तद्वृत्तौ ॥ ७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122