Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
मनिकर्मचन्द्रवंशावली प्रबन्ध |
पत्तननगरं प्राप्तः पुनरपि मन्त्री गुणाधिकत्वेन ।
दुग्धे लब्धावादः करोति कः काञ्जिके प्रीतिम् ॥ ७७
व्याख्या - मन्त्री कडुआख्यः, पुनरपि चित्रकूटाद्, गुणाधिकत्वेनानायासं सकलवस्तुप्राप्तेरधिकगुणत्वेन, पत्तननगरं प्राप्तः। ‘पत्तनं रत्नयोनिः' इत्युक्तेः पत्तनस्य गुणाधिकत्वम् । चित्रकूटं परित्यज्य गुणाधिकत्वं पात्तनीयमधिगम्य पत्तनं प्राप्तः । • यतो दुग्धे गोपयसि, लब्ध आखादो रसो येन स लब्धास्वादः, कः पुमान्, काञ्जिके आरनाले, प्रीतिमानन्दं करोति । अयमर्थः - येन गोपयः पीतं भवति तस्य किल काञ्जिकं न खदते, तथा येन पत्तननिवासः कृतो भवति स किलान्यत्र वसन्न प्रीतिमादधातीति पुनरपि पत्तनमाययाविति ॥ ७७
10
15
१६
20
राज्ञाऽपि ससम्मानं दत्ता तस्यैव पत्तनाधिपता । 'गुणवति पात्रे लब्धे कः सुविवेकी न रज्येत ॥ ७८
व्याख्या - राज्ञाऽपि पत्तनाधीश्वरेणापि तस्यैव कडुआख्यमन्त्रिण एव, ससम्मानं सत्कारपूर्वकं, पत्तनाधिपता अणहिलपत्तनैश्वर्यं दत्ता । यतो गुणवति सगुणे, पात्रे योग्ये नृपतिमनिणि वा, कः सुविवेकी सुष्ठु विवेकवान् सदसद्विवेचको, न रज्येन्न रागं विदधीत ? । 'पात्रं तु कूलयोर्मध्ये, पर्णे नृपतिमंत्रिणि । योग्यभाजनयोः' इत्यादि । 'रक्ष्य रञ्ज मौञ्ज रागे' इति कविकल्पद्रुमे । अत एव गुणवत्तां तस्य ज्ञाखा पत्तनाधिपत्यं प्रादायीत्यर्थः ॥ ७८
1
[ ७७-८२
श्रीजिनबिम्बं विधिना विधाप्य वित्तव्ययेन किल बहुना । नरकरनिषेधपूर्व सर्वे सन्तोषिताः खजनाः ॥ ७९
व्याख्या - किलेति वार्तायाम् । आप्ता एवं वार्तयन्ति । येनेति गम्यते । येन कडुआख्येन मन्त्रिणा, बहुना भूयसा वित्तव्ययेन द्रविणसमुत्सर्गेण, श्रीजिनबिम्बम् जात्येकवचनं - जिनबिम्बानि, विधाप्य कारयित्वा नराणां नृणां यः करो राजग्राह्यो भागस्तनिषेधपूर्व, खजना बान्धवाः, सन्तोषिताः सन्तोषं प्रापिताः । 'व्ययण् वित्तसमुत्सर्गे त्यागे' । किलेति 'वार्ता रुचिन्यकरणसम्भाव्य हेत्वलीकेषु' इति ॥ ७९
श्रीजिनराज गुरूणां लोकहिताचार्यवर्यकरमूले । सूरिपदं कृतनन्दी महोत्सवो दापयामास ॥ ८०
व्याख्या - य इत्यध्याहियते । यः कडुआख्यो मन्त्री, कृतो विहितो नन्दीमहोत्सवो जिनागमप्रसिद्ध उत्सवविशेषो येन स कृतनन्दी महोत्सवः, श्रीजिनराजगुरूणां लोकहिताचार्याणां यद्वर्यं मुख्यं, करमूलं पाणिपार्श्व तस्मिन्, सूरिपदमाचार्यपदवीं, दापयामास अदीदपत् । 'मूलं पार्श्वाद्ययोरुडौ निकुञ्जशिफयोः' इत्यनेकार्थः । श्रीजिनराजसूरिणामाचार्यपदं 25 येन दापितमिष्यर्थः ॥ ८०
सूरिपदोत्सवदर्शनसमुत्सुकायातजानपदलोकान् । वस्त्रादिदानपूर्व तुतोष यो दोषकृतमोषः ॥ ८१
व्याख्या - यः कडुआभिधो मन्त्री, सूरिपदे श्रीजिनराजसूरीणामाचार्यपददाने य उत्सवो महस्तस्य दर्शनायाऽवलोकनाय समुत्सुका उत्कण्ठिता आयाताः प्राप्ता ये जानपदलोका देशीयजनास्तान्, वस्त्रादिदानपूर्वम्, आदिग्रहणात्ताम्बूला20 दिखीकारः, तुतोष सन्तोषयामास । प्रीणयति स्मेति भावः । किम्भूतः ? दोषाणां कार्पण्य कार्य-कुशीलत्वायगुणानां कृतो विहितो मोषोऽपनयनं येन स दोषकृतमोषः ॥ ८१
गौर्जरविषये सकले कारितवान् यो विवेकपरिकलितः । जीववधव्यावृत्तिं कुमारभूपाल इव सदयः ॥ ८२
व्याख्या
T - यः कडुआख्यो मन्त्री, सदयः कृपालुः, विवेकपरिकलितः सदसद्विवेचनं विषेकस्तेन परिकलितः सहितः 25 सन्, सकले समस्ते, गौर्जरविषये गौर्जरदेशे, कुमारभूपाल इव कुमारनृपतिरिव, जीववधव्यावृत्तिं हिंसापरिहारं, कारितवान् कारयामास । गौर्जरदेशेऽमार्युद्घोषणामकार्षीदिति भावः ॥ ८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122