________________
३४-३९]
पाठक श्रीजयसोमविरचित
स्वामिनि परलोकगते न दोषदोऽस्याः परोपभोगोऽपि । सूर्येऽस्ताद्रिमुपेयुषितमोभिराक्रम्यते प्राची ॥ ३४
व्याख्या - स्वामिनि प्रभौ, परलोकगते परलोकं प्राप्ते, अस्या भुवः, परोपभोगोऽपि पूर्वस्वामिनोऽन्यः परस्तेन य उपभोगः सेवनं सोऽपि न दोषदो न दोषावहः । यदा खप्रभुर्युद्धा स्वःप्राप्तो भवति तदेयं भूरन्येन चेद्भुज्यते तदा न कोऽपि दोषः । यस्मात् सूर्ये रवौ, अस्ताद्विमस्ताचलमुपेयुषि प्राप्ते, प्राची पूर्वा दिकू, तमोभिरन्धकारैराक्रम्यतेऽभिभूयते । s अत्र को दोषः । यतः -
'पातः पूष्णो भवति महतां नोपतापाय यस्मात् कालेनास्तं क इह न गताः के न यास्यन्ति चान्ये । एतावत् व्यथयति पुरा लोकबाह्यैस्तमोभिस्तस्मिन्नेत्र प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ १ तथाऽत्रापि ॥ ३४
तत्सुभटाः सुतवनितादासीदासादिकं निजं निखिलम् । बालमबालमनलसात् कृत्वाऽभुस्तेऽभ्यमित्रीणाः ॥ ३५
व्याख्या - ते तत्सुभटास्तस्य श्रीकर्णस्य सुभटा योधाः, सुतवनितादासीदासादिकं निजमात्मीयं, निखिलं समस्तं बालमर्भकम्, अबाल वृद्धम्, अनलसादन्यायत्तं कृत्वा, अभ्यमित्रीणा अभ्यमित्रीया अभुर्दीप्यन्ते स्म । लोकरूढ्या 'जुं ह रं' विधाय रणायोपतस्थिरे ।
'अभ्यमित्रयोऽभ्यमित्रीयोऽभ्यमित्रीणोऽभ्यरिं व्रजन् । आभिमुख्येनामित्रानलंगामी अभ्यमित्रीणः ॥ ३५
रणरसिको रणकेलिं विधाय धैर्य निधाय निजचित्ते । स्वामी हस्त्यारूढो वोढा खर्गश्रियः समभूत् ॥ ३६
व्याख्या - रणरसिको रणकुतुकी, खामी श्रीकर्णो, निजचित्ते खहृदि, धैर्यं स्थिरतां, निधाय स्थापयित्वा रणकेलि रणक्रीडां, विधाय कृत्वा, हस्त्यारूढो गजारूढः सन्, स्वर्गश्रियः स्वर्गलक्ष्म्या, वोढा धारकः समभूज्जातः । 'दधते दधाति धरति च धारयति वहति कलयति च' इति क्रियाकलापे । रणे रसो रागोऽस्यास्तीति रणरसी । खार्थे कप्रत्यये रणरसिक इति ॥ ३६
९.
Jain Education International
व्याख्या - तदनु पश्चात् श्रीकर्णस्य स्वर्गारोहानन्तरम्, श्रीसाहिसेनया श्रीगोरिपातसाहिसैन्येन, दुर्गमपि दुर्गममपि दुर्ग कोट्टो जगृहे गृहीतं स्वीकृतम् । खाज्ञा तत्र प्रवर्तितेत्यर्थः । एतदेव वचनभङ्गया स्पष्टयति - येन कारणेन, धनिकवियुक्तं खामिविरहितं स्थानं कोट्टादिसन्निवेशः, खल्पबलेनाप्यल्पसैन्येनाप्यल्पसामर्थ्येनापि वा संसाध्यं ग्राह्यम् । अयं हि महाबलसाहिस्तत्र किं वाच्यम् ॥ ३८
अथ तत्र सुतैः सहिता समुखं तस्थौ पितुर्गृहे राज्ञी । पुत्राश्चत्वारोऽपि हि क्रमतो वृद्धिं परां प्रापुः ॥ ३९
म० क० नं० प्र० २
तदवसरे कुलगेहे खसुतचतुष्टययुता गता पत्नी । प्रागेव षे (खे) डिनगरे गतविधुरे निजजनाहूता ॥ ३७
व्याख्या - तदवसरे तस्मिन् समये 'जुंहर' प्रस्तावे, प्रागेव साहिसैन्यागमनात् पूर्वमेव, गतविधुरे विलीनेष्टवस्तुवियोगे, पे (खे) डिनगरे महेवाभिधपुरोपकण्ठपुरे, निजजनाहूता स्वकुलगृहस्खजनजनाकारिता, खसुतचतुष्टययुता आत्मीय समधरा- 25 दिपुत्रचतुष्टयसमेता, पत्नी रत्नादेवी, कुलगेहे मातापितृगृहे, गताऽभूदिति गम्यते । 'विधुरं स्यात् प्रविश्लेषे विकले ' इत्यनेकार्थः । प्रविश्लेष इष्टवस्तुवियोगः ॥ ३७
दुर्गमपि तदनु जगृहे दुर्गं श्रीसाहिसेनया येन ।
धनिकवियुक्तं स्थानं खल्पबलेनापि संसाध्यम् ॥ ३८
For Private & Personal Use Only
10
15
20
30
25
www.jainelibrary.org