Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 16
________________ ॥११॥ एगारसहस दुसया, बत्तीसा चउरसहसचउसट्ठी । अह उड्ढं सब्वे पन-रससहस्सदुसयछन्नउआ ।।२३।। अधोलोकस्यता: सूचीरज्जवः २८०८ चतुभिर्गुण्यन्ते जातमेकादश सहस्राणि द्वे शते द्वात्रिंशदधिके ११२३२ । ऊर्ध्वलोकस्यैताः सूचीरज्जवः १०१६ चतुभिर्गुण्यन्ते जातं चत्वारि सहस्राणि चतुःषष्टयधिकानि ४०६४ । अधऊर्ध्वलोकयोः खण्डुकानां मिलने जातं पञ्चदशसहस्राणि द्वे शते षण्णवत्यधिके १५२९६ ।।२३।। अथाधऊर्ध्वलोकयोः खण्डुकसंख्ययोत्पत्तिमाह अड छ चउवीस वीसा, सोलस दस चउ अहुड्ढ चउ छट्ठ । दस बार सोल वीसा सरिसकगुणाउ चउहिगुणे २४ ____ अष्टाविंशतिः षड्विंशतिश्चतुर्विंशतिविंशतिः षोडश दश चत्वारोऽधोलोके । तथोर्ध्वलोके चत्वारः षडष्टौ दश द्वादश षोडश विंशतिः सदृशाङ्कगुणाः स्वकस्वकाङ्कगुणिताः । तु पुनस्ते च चतुभिर्गुणिता: पूर्वोक्ताः सर्वखण्डुकाः स्युः । एतेऽङ्काः स्वकाङ्कगुणिता यथाक्रमं जाताः ।७८४।६७६।५७६।४००।२५६।१००।१६। एतेऽङ्का मीलिता जातम् २८०८ । एते पुनश्चतुभिर्गुण्यन्ते जातं ११२३२ अधोलोकखण्डकाः स्युः । ऊर्ध्वलोके यथाक्रम अङ्का गुणिता जातम् ।१६।३६।६४।१००।१४४।२५६।४००। एतेषां मीलने जातम् १०१६ । एते पुनश्चतुभिर्गुण्यन्ते जातम् ४०६४ । ऊर्ध्वलोके खण्डुकाः स्युः ।।२४॥ ग्रन्थकार एतदेव स्पष्टीकरणाय भेदान्तरेणाह चउ अडवीसा छप्पण्ण; पयरसरिसंकगणिअ पिह मिलिए । समदीहपिहुव्वेहा, उड्ढमहो खंडुआ नेया ॥२५॥ JainEducatioTMAL For Persona & Private Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62