Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकमालिकादि करणानि
।।४८।।
नगर्याः शक्रावतारनाम्नि चैत्ये केवलश्रियमवाप्य सेत्स्यति इति गाथार्थः ।।' यतनां चात्र स्नानपूजादिगतामित्थमादिशन्ति, 'भूमीपेहणजल-च्छाणणाइ जयणा उ होइ न्हाणाओ । एत्तो विसुद्धभावो अणुहवसिद्धचिय बुहाणं ।।११।। तथा ।। एसो चेव इहं विही, विसेसओ सव्वमेव जत्तेणं ।। जह रेहति तह सम्मं, कायश्वमणण्णचे ।।११।। वत्थेबंधिऊणं, णासं अहवा जहा समाहीए । वज्जेयव्वं तु तदा, देहम्मिवि कंडुयणमाइ ||२०|| इत्यादि । नन्वेवं विध्यंशेऽशुद्धो भक्त्यंशे च शुद्धो योगः प्राप्तः, तथाच कथं न तत एकविधकर्मबन्धः, नच मिश्रां कर्म शास्त्रे प्रोक्तं येन मिश्रात्ततो मिश्रं कर्म बध्येतेत्याशङ्कायामाह -
सुद्धासुद्धो जोगो, एसो ववहारदंसणाभिमओ । णिच्छयणओ उ णिच्छई, जोगज्झवसागमिस्सत्तं ||५||
व्याख्या - एष दुर्मतिनारीसदृशानां जीवानां विधिवैधुर्येऽपि भक्तिकालीनो जिनपूजायोगः अशुद्धदानादिवच्छुद्धाशुद्ध आंशिक शुद्ध शुद्धिपीन ( प्राप्त) व्यवहारदर्शनस्य व्यवहारनयस्य अभिमतः । ततश्च वाग्व्यवहार मात्र सिद्धेर्नान्यत्फलं, निश्चयनयस्तु योगाध्यवसायस्थानानां मिश्रत्वं नेच्छति अशुभरूपाणां शुभरूपाणा च शास्त्रे प्रतिपादनात् तृतीयराशेरकथनादिति स्पष्टं महाभाष्ये । ननु समूहालम्बनोपयोगरूपस्याध्यवसायस्य सम्भवात्कथं तदप्रतिपाद वाच्यम् समहालम्बनज्ञानस्य विशेषणीयत्वात् विध्यौपयिकस्य विशिष्टोपयोगस्यैवमधिकृतत्वादिति युक्तमुत्पश्यामः । तथा चाविध्यंशे उत्कटत्वेऽशुद्ध एव भक्त्यंशे पुनरुत्कटत्वे शुद्ध एव योग इत्येतन्मते एकस्माद्योगादेकदैक एव बन्धः बन्धकालस्य प्रदीर्धत्वात्परिणामपरावृत्त्या च मिश्रत्वं भावनीयम् । एकधारारूढेतु भक्तिभावेऽविधिदोषोप
Jain Educatiomational
For Personal & Private Use Only
कूपदृष्टांत विशदो
करण
।। ४८ ।।
ainelibrary.org

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62