Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥४९॥
निरनुबन्धतया द्रव्यरूपतामश्नुवंस्तत्र मग्न इवावतिष्ठते, एकधारारूढेऽविधिभावेप्यविधिभक्तिपर्यवसायिनि विधिपक्षादूषकतामप्यसहमाने भक्तिभावस्तथा अविधियुतस्य विषयेप्यर्चनादेर्भावस्तवाहेतुत्वेन न द्रव्यस्तवत्वमिति प्रतिपादनादिति विवेचकाः । नन किमित्येवमविधियुतभक्तिकर्मणा व्यवहारतो निश्चयतो वा बन्धपदार्थकालापेक्षया मिश्रत्वमुच्यते, यावता द्रव्यहिंसयव जलपुष्पादिजीवोपमदरूपया मिश्रत्वमुच्यतां उत्तरकालिकचैत्यवन्दनादिभावस्तवेन तद्दोपापनयनात्कूपदृष्टान्तोपपत्तेरित्याशङ्कायामाह
जइ विहिजुयपूयाए, दुह्रत्तं दव्वमित्तहिंसाए । तो आहारविहार-प्पमुहं साहूण किमदुटुं ।।६॥
व्याख्या-यदि विधियुतपूजायां विधियतभक्तिकर्मणि, द्रव्यमात्रहिंसया, दुष्टत्वं स्यात्, तोत्ति तर्हि, साधूनामाहारविहारविहारप्रमुखं कि मदुष्टमुच्यते ?, तदपि दुष्टमेव वक्तमुचितं तत्रापि द्रव्यहिंसादोषस्यावर्जनीयत्वात् । यतनया तत्र न दोष इति चेत्, अत्रापि किं न तथा, जिनपूजादौ द्रव्य हिंसाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिसारूपत्वात् ।।तदुक्त।। "असदारंभपवत्ता, ज च गिही तेण तेसि विण्णेया । तष्णिवित्तिफलचिय, एसा परिभावणीय मिणं ॥४३॥" व्याख्या-असदारम्भप्रवृत्ताः प्राण्युषमर्दनहेतुत्वेनाशोभनकृष्यादिव्यापार प्रसक्ताः, यद्यस्माद्धेतोः, चशब्दः समुच्चये । गृहिणो गृहस्थाः; तेन हेतुना, तेषां गृहिणां, विज्ञेया ज्ञातव्या, तन्निवत्तिफलैव देहगेहादिनिमित्तजीवोपमर्दनरूपाशुभनिवृत्तिप्रयोजनैव, भवति हि जिनपूजाजनितभावविशुद्धिप्रकर्षण चारित्रमोहनीयक्षयोपशमसद्भावात्कालेनासदारम्भेभ्यो निवृत्तिः । तथा जिनपूजाप्रवृत्तिकाले वाऽसदारम्भाणाम
॥४९।।
Jain Educati
For Personal & Private Use Only
lainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62