Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकनालिकादिमा
निशामक्ते स्वरूपतो
विभावरीभक्तस्य स्वातंत्र्येणैव पापजनकत्वस्य सिद्धान्तप्रसिद्धत्वात् । नहि हिंसा हिसान्तरमन्तर्भाव्यं पापं
जनयति तद्वदेव विभावरीभक्त हिंसामन्तर्भाव्येति, न किञ्चिदेतत् ।। यत्तु श्राद्धदिनकृत्य सूत्रवृत्त्योरुक्त "तज्जोणिप्रकरणानिया
याण जीवाणं, तहा संपाइमाण य । निसिभत्ते वधो दिट्रो, सव्वदंसीहि सव्वहा ।।२२७॥'
तस्मिन्संसक्तान्नसक्त्वादौ भक्ते निगोदोरणिकादीनां योनिरुत्पत्तिर्येषां ते तद्योनिका जीवास्तेषां तथा ।५४॥
सम्पातिमानामागन्तुककुन्थुपिपीलिकादीनां चशब्दात् आत्मनश्च कीटिकादेमधादिघातात्, निशिभले वधो विनाशो, दृष्टः सर्वदर्शिभिः सर्वथेति ॥ यदुक्तं निशीथभाष्ये, 'जइवि हु फासुअदव्वं कुंथुपणगा इत्यादि ।' अत्र सर्वथेति प्रौढिवाद एव, कालातिक्रमादिप्रयुक्तसंसक्तान्नसम्भवानामागन्तुकसम्पातिमसत्त्वानां च व्यापादनेन दोषसम्भव इत्यत्र तु निर्भर इति सूक्ष्मधिया निभालनीयम् ।। यत्तु, तस्मिन्नित्यनातरं 'अकारप्रश्लेषणासंसक्तानपानेपि राबियोगाजीवोत्पत्तिः' इति केनचिदभिधीयते तदभिनिवेशविजृम्भितं, अकारप्रश्लेषरहितस्यैव पाठस्य ताडपत्रादिपुस्तके दर्शनात्तत्सहितपाठस्य प्रदर्शयिष्यमाणभाष्यचूाद्यागमविरुद्धत्वात् । एतेन योगशास्त्रग्रन्थवृत्तिलेशोपि (प्रकाश ३, श्लोक ५२-५३,) व्याख्यातः ।। अयं हि सः, 'अपि च निशाभोजने क्रियमाणे अवश्यं पाकः सम्भवी तत्र च षड़जीवनिकायवधोऽवश्यम्भावी भाजनधावनादौ च जलगतजन्तुविनाशः, जलोज्झनेन च भूमिगतकून्थपिपीलिकादिजन्तघातश्च भवति ।। तत्प्राणिरक्षणकांक्षयापि न निशाभोजनं कर्तव्यं, यदाहुः ।। 'जीवाण कथमाईण घायणंभायणधोयणाइसु ।। एमाइ रयणिभोयण-दोसे को साहिउं तरइ ।।१।।' इति ।।५२।। ननु यत्रान्नस्य न पाको
॥५४॥
Mainelibrary.org
Jain Educati
o
nal
For Personal & Private Use Only

Page Navigation
1 ... 57 58 59 60 61 62