Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥५३॥
ल्पनया प्रौढिवादपराणां श्राद्धदिनकृत्ययोगशास्त्रवृत्त्यादिग्रन्थानां सम्प्रदायशुद्धतात्पर्यमजानतो देवानां प्रियस्य । तथा च तत्त्वार्थ (अध्याय ७ सूत्र २) वृत्तिः । “कः पुनर्दोषो रात्रिभोजन ? इति चेत्, एवं मन्यते उद्गमादिदोषरहितस्य वासरपरिगृहीतस्याभ्यवहारेणान्धसो नक्त न किल दोष इति । एतदयुक्तं, कालातिक्रान्तस्य प्रतिषिद्धत्वात् गृहीतस्यानीतालोचितक्षणविश्रान्तिसमनन्तरमेव च भुजेरभ्यनज्ञानात् निशाहिण्डने चैर्यापथविशुद्धे रसम्भवात् दायकगमनागमन-सस्नेहपाणिभाजनाद्यदर्शनादालोकितपानभोजनासम्भवात, ज्योत्स्नामणिप्रदीपप्रकाशसाध्यमालोकनमिति चेत्, तदप्यसद् अग्निसमारम्भनिषेधाद्रत्नपरिग्रहाभावाज्योत्स्नायाः कादाचित्कत्वादागमे तन्निषिद्धत्वाद्धिसावदनासेवनीयमेव विभावरीभक्तमिति ।।" अत्र हि विभावरीभक्तस्यानासेवनीयत्वे आगमनिषिद्धत्वमेव हेतुरित्यत्र निर्भर इति। भ्रान्तः शङ्कते हिंसावदेवेत्यस्य हिंसायुक्तमेवेत्यर्थ इति ?, तत्तुच्छम् । उदाहरणपरस्यैतद्वचनस्य हेतपरत्वे प्रमाणाभावात् । एकहेतोरेव चरितार्थत्वे हेत्वन्तरस्यानाकांक्षितत्वादप्रयोजकत्वेन हेतुहेतुपरत्वस्याप्ययोगात् । तथा सति हिंसावदित्यनन्तरमितीत्यस्याध्याहारप्रसङ्गाच्च। अथाऽनासेवनीयत्वं बलवदनिष्टाननुबन्धित्वे सति कृतिसाध्यत्वाभावः, आगमनिषिद्धत्वमित्यत्र चागमाभिधानं प्रमाणदाढर्याय, हेतुस्तु निषिद्धत्वमेव, तच्च स एवेति हेतुसाध्ययोरभेदप्रसङ्गान्नेदमनुमानं घटां प्राञ्चति ? इति चेत्, न, निषेधविधेर्लक्षणया पापजनकत्वमेवार्थ इति पापजनकत्वेन हेतुना उक्तसाध्यसाधनेऽस्य दोषलेशस्याप्यभावादिति युक्तमुत्पश्यामः । अथ पापजनकत्वमेव हिंसायुक्तत्वेनेति स एव हेतुरत्र शोभन इति चेत्, न, हिंसावदेवेत्यत्रैवकारस्य स्पष्टत्वार्थकत्वेन हिंसाया इव
Jain Educati
o
nal
For Personal & Private Use Only
Xlinelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62