Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
निशाभक्त
वरूपतो
कपदृष्टांत विशदीक
॥५२॥
॥ अर्हम ॥
पू. पं. श्री मुक्तिविजयगणिभ्यो नमः । निजप्रज्ञासंस्मारितातीतश्रुके बलि-न्यायविशारद-न्यायाचार्य-महोपाध्याय श्रीयशोविजयाणिप्रणीतः ।।
॥ निशाभक्ते स्वरूपतो दूषितत्वविचारः ।। एन्द्र श्रेणिनतं नत्वा, वीरं तत्त्वार्थदेशिनम् । स्वरूपेणैव दुष्टत्वं, निशाभक्त विभाव्यते ॥१॥
अथ स्वरूपेणव दुष्टत्वमित्यस्य कोऽर्थः ?, उच्यते, यथा हिंसामषावादादिकं आगमनिषिद्धत्वात्स्वरूपेणव दोषः, नतु तस्य दोषत्वे नियमतो दोषान्तरानुषङ्गित्वं प्रयोजक तथा निशाभोजनमायागमनिषिद्धत्वात्स्वरूपेणैव दोषो नतु तस्य दोषत्वे दोषान्तरानुषङ्गः प्रयोजक इति । एतेन यदुच्यते "रात्रौ सर्वत्र भक्ष्ये कुन्थुपनकोरणिकादिरवश्यं जीवोत्पत्तिरिति तद्धिसानुषङ्गादेव वर्जनीयं विभावरीभक्तमिति" तदपास्तं द्रष्टव्यं आगन्तुक-तदुद्भवव्यतिरेकेण भक्ष्ये रात्रिसम्बन्धमात्रेण जीवोत्पत्तेः सुधर्मस्वामिनमारभ्याद्य यावदप्रसिद्धत्वात् । अन्यथा कस्यचिदपेक्षया किञ्चिद्भक्ष्यमिति सर्वत्रापि जीवोत्पत्तौ वस्त्रादेरपि रात्रावग्रहणप्रसङ्गः । नच नियतभक्ष्यापेक्षयैव जीवा उत्पत्ति यान्तीत्याहोपुरुषिकामात्रमेतत् । किञ्च रात्रौ तदुद्धवागन्तुकजीवानां दुर्दर्शत्वेनैषणाद्यशुद्धिसम्भवेन च हिंसादोषमुद्भाव्य तत आगमनिषिद्धत्वादेव विभावरीभक्तस्यानासेवनीयत्वमुक्त तत्त्वार्थवृत्ताविति किमन्यादृशपरिक
Jain Educa
t ional
For Personal & Private Use Only
inelibrary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62