Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकनालिकादि प्रकरणानि
कूपदृष्टांत विशदीक
रण
AC
॥५०॥
सम्भवात् शुभभावसम्भवाच्च तन्निवृत्तिफलाऽसौ भवतीत्यच्यते । एषा जिन पूजा, परिभावनीयं पर्यालोचनीयं, इदं जिनपूजाया असदारम्भनिवर्तनफलत्वं भवद्भिरपि, येनावबुध्य तथैव प्रतिपद्यते ।। इति गाथार्थ: ।।" इति पञ्चाशकवृत्तो ।। यतनातौ नच हिंसा, यस्मादेषैव तन्निवृत्तिफला तदधिकनिवृत्तिभावाद्विहितमतोऽदृष्टमेतदिति, अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे 'नन्वेवं प्राणातिपातमषावादावप्रासुकदानं च कर्तव्यापन्नमिति चेत्, आपद्यतां नाम भूमिकाविशेषापेक्षया-को दोषः; अत एव यतिधर्माऽशक्तानां द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्तेति भगवतीवृत्तावुक्तं, अत्र यतिधर्माशक्तत्वं असदारम्भप्रवृत्तत्व अधिकारिविशेषणं द्रष्टव्यं,' आज्ञायोगादाहार विहारादिकं साधूनां न दुष्टमिति चेत्, अत्रापि परिमितसंसारफलकत्वार्थवादेनानुकम्पादाविवाज्ञायोगः किं न कल्प्यते ?।। उक्तं हि संसारप्रतनुताकारणत्वं द्रव्यस्त वस्य तत्र दानादिचतष्कतुल्यफलकत्वोपवर्णनमप्यत्रोषष्टम्भक मेव, कूपज्ञातान्यथानुपपत्त्या पूजादिकाले द्रव्यहिसाजनितं पापमवर्जनीयमेव, अत्र लिखनीयमग्रे लिखितं विलोक्यम् । अथ द्रव्यस्तवे यावानारम्भस्तावत्पापमित्यत्र स्थूलानुपपत्तिमाह
जावइओ आरंभो, तावइयं दूसणंति गणणाए । अप्पत्तं कह जुञ्जइ, अप्पंपि विसं च मारेइ ।।७।।
व्याख्या-द्रव्यस्तवे यावानारम्भस्तावद्दषणमिति गणनायां क्रियमाणायां ऋजुसत्रनयेन प्रतिजीवं भिन्नभिन्न| हिंसाश्रयणादसङ्खयजीवविराधनासत्त्वादल्पत्वमारम्भस्य कथं युज्यते ?, न कथञ्चिदित्यर्थः, अस्तु वा कथञ्चिदल्पत्वं तथाप्यल्पो दोषः किं न नाशयति ? अपितु नाशयत्येव, अत्र ज्ञातमाह, अल्पमपि विषं च मारयति ।
॥५०॥
Jain Educ
a
tional
For Personal & Private Use Only
W
inelibrary.org

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62