Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 56
________________ ॥५ ॥ । इति न्यायविशारदप्रणीतं त्रुटितावस्थमेव तत्त्वविवेकाख्यविवरणविभूषितं 'कूप दृष्टान्तविशदीकरणप्रकरणं सम्पूर्णम् । १ कूपदृष्टान्तोऽयं प्राचीनपर्धेविभाव्यते । कश्चित्पुमानरण्यानी. वरेण्यसरणिच्युतः । अटाठ्यमान उत्तप्तो, मध्याह्नेऽतितुषातुरः ॥१॥ चखान विवरं सोऽथ, निम्नावन्यामुदन्यक: । ववधेऽस्य तुडत्यर्थ, तथा पङ्कश्च वष्मणि ॥२॥ तदुत्थं शीतलं स्वच्छं पायं पायं पयः पुमान् । चिच्छेद स दुरुच्छेदां, तृषामेष क्षणादपि ॥३॥ अविहस्तः स्वहस्तेन, सेवं सेवं तदम्भसा । भीष्मग्रीष्मार्कसम्भूतं, देहाद्दाहमजीहरत् ॥४॥ प्रक्षाल्य तज्जलेनाङ्ग, क्षालयामास मंश्वसी । प्राचीनं च नवीनं च, मलं निर्मलबुद्धिकृत् ॥५॥ अत्र चोपनयो भव्य-जीवो भ्राम्यन्भवाटवीम् । तृष्णातापमलै: क्लान्तो, लोभतृट्पापलक्षणैः ॥६॥ विवेकभूमिमासाद्य, सोऽथ द्रव्यस्तवं दधत् । विषयेषु तृषां तीक्ष्णां क्षिणोत्यक्षुण्णहर्षभाक् ॥७॥ तं द्रष्टुमागतान्दृष्ट्वा, मुनीन्श्रुत्वाथ देशनाम् । कषायशिखिसन्तागं, निर्वापयति शुद्धधीः ।।८।। दानादिकं च सद्धर्म, कुर्वन्पापमयं मलम् । क्षालयत्यखिलं क्षिप्र', युक्तोऽतः श्रावकस्य सः ॥९॥ इति प्राचीनतमपुरुषप्रणीतः कृपदृष्टान्तोपनयः सम्पूर्णः ज ॥५ ॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62