Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
क्षीणायुष्कतया च झगिति पञ्चत्वमुपगता । ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती । ततस्तस्याः कलेवरमवनिपीठलोठितमवलोक्याऽनुकम्पापरीतान्त करणो लोको मूछितेयमिति मन्यमानोऽम्भसा सिषेच । ततस्तामपरिस्पन्दामवलोक्य लोको भगवन्तं पप्रच्छ, भगवन ! असो वृद्धा कि मतोत जीवतीति?, भग
वांस्तु व्याजहार यथा मृताऽसौ देवत्वं चावाप्ता, ततः पर्याप्तिभावमुपागत्य प्रयुक्तावधिः पूर्वभवानुभूतमवगम्य वन्द॥४७॥
नार्थमागतः, स चायं मत्पुरोवर्ती देव इति ॥ ततो भगवदभिहितमिदमनुश्रुत्य समस्तः स समवसरणधरणीगतो जनः परमं विस्मयमगमत् ।। यथा। अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति ततो भगवान्गम्भीरां - धर्मकथामकथयत यथा स्तोकोपि शुभाध्यवसायो विशिष्टगणपात्रविषयो महाफलो भवति । यतः ।। 'इकपि उद
गबिन्दू, पक्खित्तं जह महासमुइंमि ।। जायं अक्खयमेवं, पूयावि जिणेसु विनेया ॥४७॥ उत्तमगुणबहुमाणो, पियमुत्तमसत्तमज्झयारंभि ॥ उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥४८।। ति ॥ ततो भगवांस्तत्सम्बन्धिनं
भाविभवव्यतिकरमकथयत् । यथा ।। अयं दुर्गतनारी जीवो देवसुखान्यनुभूय ततश्च्युतः सन्कनकपुरे नगरे कनकध्वजो नाम नपो भविष्यति । स च कदाचित्प्राज्यं राज्यसुखमनुभवन् 'मण्डूकं सर्पण, सर्प कुररेण, कुररमजगरेण, तमपि महाहिना' ग्रस्यमानमवलोक्य भावयिष्यति । यथा 'एते मण्डुकादयः परस्परं ग्रसमाना महाहेर्मुखमवशाद्विशन्ति, एवमेतेपि जना बलवन्तो दुर्बलान्यथाबलं बाधयन्तो यमराजमुखं विशन्ति' इति भावयंश्च प्रत्येकबुद्धो भविष्यति, ततो राज्यसम्पदमवध्य श्रमणत्वमुपगम्य देवत्वमवाप्स्यति, एवं भवपरम्परयाऽयोध्याया
1४७॥
Jain Educati
o
n
For Personal & Private Use Only
mplainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62