Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 50
________________ ॥४५॥ परोपणं हिंसेति' तत्त्वार्थोक्तहिंसाल ('क्षणमपि जाघटीति । इत एव श्रीहरिभद्रसूरिभिजिनवरेन्द्रपूजाफलं समग्रविधिभक्तिभाजो यथाख्यातचारित्रपर्यवसानं पारम्पर्येण अल्पायुष्कतया पूजाया अविधानेपि पूजाप्रणिधानस्य सनिदर्शनं फलवत्त्वं च प्रतिपादितं । तथा हि । 'उत्तमगुणबहुमाणो, एयमुत्तमसत्तमज्झयारंमि ।। उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ॥४८॥' उत्तमगुणेषु प्रधानगुणेषु जिनेषु वीतरागत्वादिषु वा जिनगुणेषु, बहुमान: पक्षपात उत्तमगुणबहुमान: । स जिनपूजया भवतीति सम्बन्धः । पूजकस्येति गम्यं । तथा पदमवस्थानं, उत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनगणधरनाकिनरनायकादीनां मध्ये । तथोत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मबन्धरूपस्याशुभकर्मक्षयरूपस्य कालान्तरक्रमेण यथाख्यातचारित्ररूपस्य निष्पत्तिर्भवति अथवोत्तमधर्मप्रसिद्धिजिनशासनप्रकाशः । पूजयाऽभ्यर्चनेन, जिनाश्छद्मस्थवीतरागास्तेषां वराः प्रधानाः केवलिनस्तेषामिन्द्रास्तीर्थकरनामकर्मोदयवर्तित्वानानाविधातिशयसमेतत्वाच्च तीर्थकरा अतस्तेषां जिनवरेन्द्राणाम् ॥ इति गाथार्थः ।। पूजा तावन्महाफलैव, अथ पूजाप्रणिधानमपि महाफलमिति दृष्टान्तेन दर्शयन्नाह ।। 'सुव्व (च) इ दुग्गइनारी, जगगुरुणो सिंदुवारकुसुमेहिं ॥ पूजापणिहाणेणं, उववन्ना तियसलोगंमि ॥ ॥४९।।' श्रूयत आकर्ण्यते जिनेन्द्रप्रवचने, किंतदित्याह-दुर्गतिनारी दारिद्र्योपहतयोषा । जगद्गुरोस्त्रिभुवननाथस्य, सिन्दुवारकुसुमैनिर्गुण्डीपुष्पः करणभूतैः । या, पूजार्चनं तत्र यत्प्रणिधानं 'पूजां करोमीत्येवविधमैकागयं' तत्पूजाप्रणिधानम् । इह च १ ( ) एतच्चिह्नान्तरितः पाठः पठनाभिरतानामर्थसङ्गतये संयोजितः स्याच्चेत्कस्यापि पाश्व पूर्णाविमौ ग्रन्थौ तदानिवेद्यं ।। ॥४५।। Jain Educat For Personal & Private Use Only namainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62