Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 48
________________ 1161 गुणाय पुष्यबन्धलक्षणोपकाराय, नियमेनावश्यम्भावेन, अथ कथं स्वरूपेण सदोपमप्यारम्भिणो गुणायेत्याह, सुभभावहेउओत्ति लुप्तभावप्रत्ययत्वेन निर्देशस्य शुभभावहेतुत्वात्प्रशस्तभावनिबन्धनत्वाजिनपूजार्थस्नानादेः, अनुभवन्ति च केचित्स्नानपूर्वकं जिनार्चनं विदधानाः शुभभावमिति । खलुक्यालङ्कारे, विज्ञेयं ज्ञातव्यम् । अथ गुणकरत्वव मस्य शुभभावहेतुत्वात्कथमिव ज्ञेयमित्याह-कूपज्ञातेनावटोदाहरणेन, इह चैवं साधनप्रयोगः 'गुणकरमधिकारिणि (णः) | किञ्चित्सदोषमपि स्नानादि, विशिष्टशुभभावहेतुत्वाद्, विशिष्टशुभभावहेतुभूतं यत्तद्गुणकरं दृष्टं यदा कृपखननं, विशिष्टशुभभावहेतुश्च यतनया स्नानादि ततो गुणकरमिति' । कूपखननपक्षे शुभभावः तृष्णा दिव्युदासेनानन्दाद्यवाप्तिरिति । इदमुक्तं भवति यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदृष्टमपि जलोत्पत्तावनन्तरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च किल भवतीत्येवं स्नानादिकमप्यारम्भदोषमपोह्य शुभाध्यवसायोत्पादनेन विशिष्टाशुभकर्म निर्जरणपुण्यबन्धकारणं भवतीति । इह केचिन्मन्यन्ते पूजार्थस्नानादिकरणकालेपि निर्मलजलकल्प शुभाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकल्पपापाभावाद्विषममिदमुदाहरणं, तदा (तत्) किलेदमित्थं योजनीयं यथा कृपखननं स्वपरोपकाराय भवत्येवं स्नानपूजादिकं करणानुमोदनद्वारेण स्वपरयोः पुण्यकारणं स्यादिति । न चैतदागमानुपाति, यतो धर्मार्थप्रवृत्तावप्यारम्भजनितस्याल्पस्य पापस्येष्टत्वात्, कथमन्यथा भगवत्यामुक्तं 'तहारूवं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाण भंते ? किं' कजइ ?, गोयमा ! अप्पे पावे कम्मे बहययरिया से निजरा कन्जई' । तथा ग्लानप्रतिचरणानन्तरं पञ्च ।।४३।। Lain Education Interna bona For Personal & Private Use Only dinelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62