Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 46
________________ ॥४ ॥ ॥ अर्हम् ॥ पू. मुनिराज श्री हर्षाविजयेभ्यो नमः ।। न्यायविशारद-न्यायचार्य-महोपाध्यायश्रीयशोविजयगणिप्रणीतं स्वोपज्ञतत्त्वविवेकाख्यविवरणविभूषितं ।। ॥श्रीकूपदृष्टा तविशदीकरणप्रकरणम् ॥ KI ऐन्द्रश्रीर्यत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मुक्तनिदानं प्रभवति च यतः सर्वविद्याविनोदः । श्रीमन्तं वर्धमानं त्रिभुवनभवनाभोगसौभाग्यलीला-विस्कर्जत्केवलश्रीपरिचयरसिकं तं जिनेन्द्रं भजामः ॥१।। सिद्धान्तसुधास्वादी, परिचितचिन्तामणिनयोल्लासी। तत्त्वविवेक कुरुते न्यायाचार्यो यशोविजयः ।।२।। सत्रेमिष्टदेवतानमस्कारपूर्वक प्रतिज्ञागर्भा प्रथमगाथामाह नमिऊण महावीरं, तिसिंदणमंसियं महाभागं । विसईकरेमि सम्म, दव्वत्थए कूवदिद्रुतं ।।१।। व्याख्या-नत्वा महावोरं त्रिदशेन्द्रनमस्कृतं महाभागं महानुभावं, महती आभा केवलज्ञानशोभा तां गच्छति I|॥४१॥ यः स तथा तमिति वा । विशदीकरोमि निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि । सम्यक् असम्भावनाविपरीतभावनानिरासेन, द्रव्यस्तवे स्वपरोपकारजनकत्वानिर्दोषतया साध्ये इति शेषः । कुपदृष्टान्तं, अवटदृष्टान्तं धूमवत्त्वावह्निमत्तया साध्ये पर्वते महानसदृष्टान्त इतिवद् अयं प्रयोगः । अत्र च भगवतश्चत्वारो मूलातिशया: प्रतिपादिताः । Jain Educati on For Personal & Private Use Only PANThinelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62