Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकना-14 तथा हि महावारा
लकादि प्रकरणानि
पदृष्टांत विशंदीकरण
॥४२।।
तथा हि महावीरमित्यनेन 'विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।१।।' इति निरुक्तात्सकलापायमूलभूतकर्म विदारणक्षमतपोवीर्यविराजमानत्वाभिधानादपायापगमातिशयः १।। त्रिदशेन्द्रनमस्कृतमित्यनेन पूजातिशयः २॥ महाभागमित्यनेन ज्ञानातिशयः प्रतिपादित: ३॥ वचनातिशयश्च सामर्थ्यगम्य इति ४।। प्रतिज्ञातमेवाह
सपरोवयारजणगं, जणाण जह कृवखणणमाइटुं । अकसिणपवत्तगाणं, तह दव्वत्थओ वि विष्णेयो २॥
व्याख्या-यथा जनानां कृपखननं निर्मलजलोत्पादनद्वारा, स्वपरोपकारजनक्रमादिष्टं एवं अकृत्स्नप्रवर्तकानां कृत्स्नसंयमेऽप्रवृत्तिमतां गृहिणां, द्रव्यस्तवोऽपि स्नानपूजादिक: करणानुमोदनद्वारेण स्वपरयोः पुण्य कारणं, विज्ञेयः । दृष्टान्ते उपकारी द्रव्यात्मा, दान्तिके च भावात्मेतिभावः ।।२।। नन्वियं योजनाऽभयदेवसूरिणव (चतुर्थ ) पञ्चाशकवृत्तौ दूषिताऽन्यथायोजना च कृता, तथा हि । 'न्हाणाइवि जयणाए, आरंभवओ गुणाय णिय मेण ।। सुहभावहेउओ खलु, विष्णेयं कूवणाएणं ।।१०।।' स्नानाद्यपि देहशौचप्रभृतिकमपि, आस्तां पूजार्चादि (तद्वर्जनं पूजा वा) आदिशब्दाद्विलेपनादिग्रहः, गुणायेति योगः, यतनया रक्षयितुं शक्यजीवरक्षणरूपया । तत्कि साधोरपीत्याशंक्याह, आरम्भवतः स्वजनधनगेहादिनिमित्तं कृष्यादिकर्मभिः पृथिव्यादिजीवोपमर्दनयुक्तस्य गहिण इत्यर्थः । न पुनः साधोः, तस्य सर्वसावद्ययोगविरतत्वाद्भावस्तवारूढत्वाच्च, भावस्तवारूढस्य हि स्नानादिपूर्वकद्रव्यस्तवोऽनादेय एव, भावस्तवार्थमेव तस्याश्रयणीयत्वात्तस्य च स्वत एव सिद्धत्वात् । एनं चार्थं प्रकरणान्तरे स्वयमेव वक्ष्यतीति ।
।।४२॥
Jain Education
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62