Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 34
________________ ॥२९॥ तुष्कम्, त्रीण्यज्ञानानि ३ च, एतानि सप्त ज्ञानावरणकर्मक्षयोपशमसम्भूतानि । चक्षुरचक्षुरवधिलक्षणं दर्शनत्रिक दर्शनावरणकर्मक्षयोपशमजम् ३ । गृहस्थधर्मो देशविरतिः १ । वेदकं क्षायौपशमिकं सम्यक्त्वम् २ । सर्वचारित्रं सर्वविरतिरूपम् ३ । तत्र वेदकं दर्शनमोहक्षयोपशमजम् । देशविरतिः सर्वविरतिश्च चारित्रमोहक्षयोपशमजे । दानादिकलब्धयः पञ्च, पञ्चविधान्त रायक्षयोपशमजाः । इह दानादिलब्धयो द्विधा, अन्तरायकर्मणः क्षयसंभविन्यः क्षयोपशमसम्भविन्यश्च । तत्र याः क्षायिक्यस्ता:पूर्वमुक्ताः केवलिन एव । याः पुनरिह क्षायौपशमिकान्तर्गता उच्यन्ते, या ताः क्षयोपशमजाश्छद्मस्थानामेवेति ३ ।।६।। अथौदयिकस्योत्तरभेदा यथा'अन्नाणमसिद्धत्ताऽसंज लेसा कसाय' गइवेया। 'मिच्छं 'तुरिए 'भव्वा भव्वत्तजिय त्तपरिणामे" ॥७।। ___ अवचूरिः-तुर्ये औदयिके भावे एकविंशतिर्भेदा यथा-अज्ञानं १ असिद्धत्वं २ असंयमः ३ लेश्याषट्कं ९ कषायाश्चत्वारः १३ नारकादिगतिचतुष्कं १७ पुरुषवेदादिवेदत्रयं २० मिथ्यात्वं २१ चेति । तत्राऽज्ञानं मिथ्यात्वोदयजम् १ । असिद्धत्वमष्टविधकर्मोदयजम् २ असंयमोऽविरतित्वं प्रत्याख्यानावरणकषायोदयात् ३ । लेश्याः कषायमोहनीयोदयात् १३ । गतयो गतिनामकर्मोदयात् १७ । वेदा नोकषायमोहनोयोदयात् २० मिथ्यात्वं मिथ्यात्वमोहनीयोदयादिति २१ । उपलक्षणत्वान्निद्रापञ्चकसातासाताहास्यरत्यरत्यादयो भावा: कर्मोदयजन्या अन्येऽपि बहवो द्रष्टव्याः । एकविंशतिसंख्या निर्देशस्तु पूर्वशास्त्रानुसारादिति ४ ॥ अथ पारिणामिकस्योत्तरभेदानाहपारिणामिके भावे त्रयो भेदा यथा-भव्यस्य भावो भव्यत्वम् १ । एवमभव्यत्वं २ जीवत्वं ३ चेति । एषा ॥२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62