Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
लोकनालिकादि! प्रकरणानि
||३८||
अवचूरिः - क्षायिकं सम्यक्त्वं तुर्यादिगुणस्थानाष्टके श्रुते भणितम् । अविरत १ देशविरत २ प्रमत्ता ३ प्रमत्ता ४ पूर्वा ५ निवृत्तिबादर ६ सूक्ष्मसम्परायो ७ पशान्त ८ रूपे गुणाष्टके क्षायिकभावस्य क्षायिक सम्यक्त्वरूपभेदो भवति नान्यः । तथा क्षीणे क्षीणमोहे पुनः क्षायिकं सम्यक्त्वं, क्षायिकं चेति क्षायिकभेदद्वयं जिनैः कथितमिति ।। २४ ।। सयोगिगुणस्थाने चरमेऽयोगिगुणस्थाने च दानादिलब्धिपञ्चकं केवलयुगलं केवलज्ञानकेवलदर्शनरूपं ७ सम्यक्त्वं ८ चारित्रं ९ चैते नव क्षायिकभावभेदा भवन्ति नाभ्ये || २५ || इति गुणस्थानेषु क्षायिक भावभेदा उक्ताः ४ । अथ गुणस्थानेषु पारिणामिकभावभेदा भाव्यन्ते—
'जीवत्तम' भव्वत्तं, ' भव्वत्तं आइमे अ ' गुणठाणे । 'सासण जा "खीणंतं, अभव्ववजा य दो भैया ||२६| चरमे दुअगुणठाणे, ४ भव्वत्तं वजिऊण जीवत्तं । एए पंचवि भावा, परूविआ सव्वगुणठाणे ||२७||
93
अवचूरि :- आदिमे मिथ्यात्वगुणस्याने पारिणामिकास्त्रयो भेदाः, कथम् ? जीवत्व १ मभव्यत्वं २ भव्यत्वं ३ इति । तथा सास्वादनादारभ्य क्षीणमोहं यावदभव्यवज द्वौ भेदौ भवतः ||२६|| 'चरमे' चरमे गुणस्थानद्विके, भव्यत्वं वर्जयित्वा मुक्त्वा जीवत्वं भवति । सयोगिकेवलिनश्च कथं न भव्यत्वम् ? उच्यते, प्रत्यासन्न सिद्धावस्थायां भव्यत्वस्याभावादधुनापि तदपगतप्रायत्वादिना केनचित्कारणेन शास्त्रान्तरेषु नोक्तमित्यतोऽत्रापि नोक्तमिति । उक्ता गुणस्थानेषु पारिणामिकभावभेदा इति ५ । एते पञ्चापि भावा औदयिक १ क्षायिक २ क्षायो
Jain Educationational
For Personal & Private Use Only
भाव
प्रकरणं
॥३८॥
Finelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62