Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 22
________________ * प्रचुराः । दक्षिणस्यां ततः प्रचुरतरं जलम्, तत्र रविचन्द्रगौतमद्वीपानामभावात् । उदीच्यां प्रचुरतमं जलम्, तत्र मान ससरस: संख्येययोजनकोटाकोटोप्रमाणस्य सद्भावात्, अतस्ते तत्र भूरितमा: 'दउपूपासुं पुढवी' इति याम्योत्तरपूर्व पश्चिमास् पृथ्वीकायिकाः क्रमेण प्रवर्द्धमानाः । तत्र याम्यायां चत्वारिंशल्लक्षभवनाधिक्यसद्भावात् प्रचुरं शुषिरlol मिति पृथ्वीजीवाः स्तोकाः । कौवेयाँ तावत्प्रमाणभवनानामभावाच्छुषिराभावेन पृथ्वीजीवाः प्रचुरतराः । पुर्वस्यां ॥१७॥ प्रचुरतराः पृथ्वीजीवाश्चन्द्रद्वीपानां तत्र सद्भावात । पश्चिमायां प्रचुरतमां पृथ्वीकायिकाः सूर्यद्वीपानां गौतभद्वीपस्य च तत्र सद्भावात् । 'दउसम तेऊ पुपासु कमा' इति दक्षिणस्यामुत्तरस्यां च समौ तेजस्कायिकी भरतैरवतानां तुल्यत्वात्, तेषु हि कदाचित्तेजस्कायिकानां सद्भावः कदाचिच्च युगलधार्मिकादिकालेऽभावः स्याद्बादराणामतस्तुल्यताद्वयोरपि दिशोः पूर्वस्यां बहुतरास्तेजस्कायिकाः पूर्वविदेहादिषु पञ्चसु सदैव तत्सद्भावात् । पश्चिमायां बहतमा अधोग्रामाणां तत्र सद्भावात् सहस्रयोजनावगाहित्वेन सर्वतो भूमेः प्राचुर्येण ग्रामाणां प्राचुर्यात्तेजसः प्राचुर्यम् ।१। 'पूपउदासुं वाऊ' इति पूर्वस्यां वायुरल्पः शुषिराभावात् । पश्चिमायां बह्वधोग्रामसद्भावे सुषिरसद्भावात बहुतरो वायुः । उत्तरस्यां भवनानां प्राचुर्येण शुषिरप्राचुर्याद्वायोरपि प्राचुर्यम् । दक्षिणस्यां चत्वारिंशलक्षभवनाधिक्येन शुषि- रप्राचुर्याद्बहुतमो वायुः ॥२॥ इति शम् ।। ॥ इति श्रीलध्वल्पबहुत्वावणिः समाप्ता । ॥१७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62