Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीयोनि
।।२४।।
1
४ 'खंधोय" इति द्वयणुकाद्यनन्ताणुकपर्यन्ताः स्कन्धा अणवश्च ५ । 'कम्म' इति अञ्जनचूर्णपूर्ण समुद्गकवन्निरन्तरपुद्गलनिचिते लोके चतुर्गतिकेन जीवेन हेतुभिर्मिथ्यात्वाविरत्यादिभिः सामान्यैः 'पडिणीयत्तणनिह्नव' इत्यादिविशेषरूपैश्च वह्नययःपिण्डवदात्मसम्बद्धाः कर्म वर्गणा: क्रियन्त इति कर्म । तच्चाष्टधा तथाहि ज्ञायते परिच्छिद्य वस्त्वनेनेति ज्ञानम् । सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध: । आव्रियतेऽनेनेत्यावरणं मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्म वर्गणान्तःपाती विशिष्टपुद्गलसमूहः, ज्ञानस्यावरणं ज्ञानावरणम् १ । दृश्यतेऽनेनेति दर्शनम्, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधस्तत्यावरणं दर्शनावरणम् ३ विद्यते आह्लादादिरूपेणानुभूयते यत्तद्वेदनीयम्, यद्यपि सर्वमपि कर्म वेद्यते तथापि पङ्कजादिशब्दवत्सातासातस्यैव वेदनीयत्वम् ३ । मोहयति सदसद्विवेकविकलं करोत्यात्मानमिति मोहनीयम् ४ । इ (ए) ति गच्छति प्रतिवन्धकतां नारकादिकुगतेर्निष्क्रमितुमनसोऽपि जन्तोरित्यायुः । यद्वा एति गत्यन्तरमनेनेत्यायुः ५ । नामयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति तत्परं करोति जीवमिति नाम ६ । गूयते शब्द्यते उच्चावचैः शब्दैरात्मा यस्मात्तद्गोत्रम् ७ । विशेषेण हन्यन्ते दानादिलब्धयोऽनेनेति विघ्नम् ८ । ६ । 'गइ' इति गम्यत इति गतिः, नारक १ तिर्यग् २ मनुष्य ३ देव ४ सिद्धिगति ५ भेदात्पश्वधा ७ । 'जीवा' इति जीवन्ति सर्व
१ ' दुग्गल य' इत्यपि पाठ: । २ 'पुद्गलस्कन्धा:' इत्यपि पाठः ।
Jain Education International
For Personal & Private Use Only
प्रकरणम्
॥२४॥
ainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62