Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 28
________________ ॥२३॥ ___ अवचूरिः-तत्र 'धम्म' इति पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः । जीवपुद्गलानां गतिपर्याये धारणाधर्मः । अस्तिशब्देन प्रदेशा उच्यन्ते, अतस्तेषां कायः समूहः अस्तिक़ायः, धर्मश्चासावस्तिकायश्च धर्मास्तिकायः। अथवा अस्तीत्ययं निपातः कालत्रयाभिधायी ततोऽस्तीति अस्ति आसीत् भविष्यति च य: कायः प्रदेशराशिः सः । अस्तिकाय इति धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । अयं भाव:-जीवानां पुद्गलानां च गमनं कुर्वतां यद्रव्यं साहाय्यं ददाति, यथा मत्स्यानां जलं स धर्मास्तिकाय इत्यर्थः १ । 'अधम्म' इति जीवपुद्गलानां स्थित्युपष्टम्भकारी अधर्मः, शेषं प्राग्वत्, अधर्मश्चासावस्तिकायश्च प्रदेशराशिरिति अधर्मास्तिकायः । अयं भाव:-यद्रव्यं जीवपुद्गलानां स्थिति कुर्वतां सान्निध्यं ददाति, सः अधर्मास्तिकाय इत्यर्थः २ । एतौ द्वावपि लोकव्यापिनी असंख्यप्रदेशात्मकाविति । 'आगास' इति आ मर्यादया अभिविधिना वा सर्वेऽर्थाः काशन्ते प्रकाशन्ते स्वं भावं लभन्ते यत्र तदाकाशम्, आकाशं च तदस्तिकायश्चाकाशास्तिकायः । अयं भाव:-जीवपुद्गलानां यदवकाशं ददाति तदाकाशमित्यर्थः, इदं च लोकालोकव्यापि, अनन्तप्रदेशात्मकमिति ३ । धर्मश्चाधर्मश्चाकाशं च धर्माधर्माकाशानीति । 'कालो' इति कलनं काल:, स च द्विधा वर्तनादिलक्षणः १ समयावलिकादिलक्षणश्च २ । तत्र वर्तन्ते भवन्ति O॥२३॥ भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना, सा लक्षणं लिङ्गमस्येति वर्तनालक्षणः, अयं समस्तद्रव्यक्षेत्र| भावव्यापीति १ । समयावलिकादिलक्षणस्तु काल: समयक्षेत्रान्तर्वत्तिद्रव्यादिष्वस्ति बहिर्वत्तिषु तु नास्तीति २ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62