Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्री योनि
प्रकरणम्
॥२०॥
नामसंजितिर्यङ्नराणां च वित्ता योनिः, तेषामुत्पत्तिस्थानस्य जलाशयादेः स्पष्टमुपलक्ष्यमाणत्वात् । संवतविवता उभयरूपा गर्भजतिर्यङ्नराणां गर्भा ह्यन्तःस्वरूपतो नोपलभ्यन्ते, बहिस्तूदरवृद्धयादिनोपलक्ष्यन्ते ॥४॥ पुनः प्रकारान्तरेणाह-- कुम्मुन्नयाइ उत्तमनरवंसीपत्तजोणि सेसनरा । नियमा गम्भविणासी संखावत्ता उ थोरयणे ।।५।।
कूर्मपृष्ठमिवोन्नतायां योनावुत्तमनरा उत्पद्यन्ते । शेषनराः संयुक्तपत्रद्वयाकारयोनौ, स्त्रीरत्ने च शंखावर्ता योनिः, सा च नियमाद्गर्भविनाशिनी ॥५॥ मुच्छंडजराउब्भिअ-संसेउववायपोअरसय तसा । मूलग्गपोरखंधा-बीयरुहा मुच्छ वणजोणी ।।६।।
मूण्डिजरायूद्भिद (द्भेद) संस्वेदोपातपोतरसजास्त्रसाः-एतावता अष्टौ योनयः । तत्र मूर्च्छजाः शलभपिपीलिकामक्षिकादयः १ अण्डजाः पक्ष्यादयः २ जरायुजा गोमनुष्यादयः ३ उद्भेदजा: खञ्जरीटादयः ४ संस्वेदजा यूकादयः ५ औपपातिका देवादयः ६ पोतजा जरायुरहिता हस्त्यादयः ७ रसजा दध्यादिषु कृम्यादयः ८ 'मूलाग्रपर्वस्कन्धबीजरुहाः । एतावता चतस्र एता मूर्छा चेति पञ्चवनस्पतियोनयः ॥६॥ चउदस मणुअनिगोए, भूजलपवणग्गि जोणि सगलक्खा । चउ तिरिअनारयसुरे, दुदु विगले दस परित्तवणे ।।७।। चुलसीइलक्खजोणिसु इअ समवन्नाइ जोणिबहुलक्खे । इक्किका उ भमिओ, कुलकोडिलक्ख पूरंतो ॥८॥
१ मूलादीन्येव बीजान्युत्पत्तिकारणानि तेन मूलबीया इयादिव्यपदेशश्च,
॥२०॥
lain Educ
a
tone
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62