Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
। १९ ।।
सचिताचित्ता मिश्रेत्यर्थः । ये हि शुक्रमिश्राः शोणितपुद्गला योन्यात्मसात्कृतास्ते सचित्ता अन्ये त्वचित्ताः । विकलेन्द्रियाणामसंज्ञितिर्यङ्नराणामेकेन्द्रियाणां च त्रिधा । तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्तगोक्षतादौ घुणकृम्यादीनामेव मिश्रा || २ || प्रकारान्तरेण यानी राहसीआ उसिणा मीसा, तिह भूजलऽनिलअसन्निविगलवणे । सीओसिण सुरगब्भे, सीआ उसिणा दुहा नरए || ३ ||
पृथ्वीजलवायूनाम्, असंज्ञितिर्यङ्नराणाम्, एकेन्द्रियाणां ( विकलानां द्वित्रिचतुरिन्द्रियाणां वनस्पतेश्च ) च त्रिधा शीता, उष्णा, मिश्रश्रेति । सुराणां गर्भजतिर्यङ्नराणां च मिश्रा | नारकाणां द्विधा योनिः । तत्राद्यनरकत्रये उष्णवेदनावति शीता योनिः । नरके शीतवेदना उष्णवेदना च स्तः, न शीतोष्णोभयरूपवेदना | चतुर्थ्यां बहुषु उपरितननरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषु उष्णा । पञ्चम्यां बहुषु शीतवेदनेषु उष्णा, स्तोकेषु उष्णवेदनेषु शीता । षष्ठसप्तम्योर्नारकानां योनिरुष्णैव । शीतयोनिकाणां ह्युष्णवेदनाऽत्यन्तदुःसहा, उष्णयोनिकानां तु शीतवेदनेति ||३||
उणिा य उकाए, संवुडजोणी इगिदिसुरनिरए । विगलासन्निसु वियडा, संवुडवियडा य गब्र्भमि ||४|| तेजः कायिकानामुष्णा योनिः । पुनः प्रकारान्तरेणाह - एकेन्द्रियाणां संवृता योनिः, स्पष्टमनुपलक्ष्यमाणत्वात् । सुराणां देवदूष्यान्तरोत्पादात्संवृता । नारकाणामुत्पत्तिस्थाननिष्कुटानां संवृतगवाक्ष कल्पत्वात्संवृता योनिः । विकला
Jain Education international
For Personal & Private Use Only
।।१९ ॥
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62