SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ । १९ ।। सचिताचित्ता मिश्रेत्यर्थः । ये हि शुक्रमिश्राः शोणितपुद्गला योन्यात्मसात्कृतास्ते सचित्ता अन्ये त्वचित्ताः । विकलेन्द्रियाणामसंज्ञितिर्यङ्नराणामेकेन्द्रियाणां च त्रिधा । तत्र जीवति गवादावुत्पद्यमानानां कृम्यादीनां सचित्ता, अचित्ते काष्ठे घुणादीनामचित्ता, सचित्ताचित्तगोक्षतादौ घुणकृम्यादीनामेव मिश्रा || २ || प्रकारान्तरेण यानी राहसीआ उसिणा मीसा, तिह भूजलऽनिलअसन्निविगलवणे । सीओसिण सुरगब्भे, सीआ उसिणा दुहा नरए || ३ || पृथ्वीजलवायूनाम्, असंज्ञितिर्यङ्नराणाम्, एकेन्द्रियाणां ( विकलानां द्वित्रिचतुरिन्द्रियाणां वनस्पतेश्च ) च त्रिधा शीता, उष्णा, मिश्रश्रेति । सुराणां गर्भजतिर्यङ्नराणां च मिश्रा | नारकाणां द्विधा योनिः । तत्राद्यनरकत्रये उष्णवेदनावति शीता योनिः । नरके शीतवेदना उष्णवेदना च स्तः, न शीतोष्णोभयरूपवेदना | चतुर्थ्यां बहुषु उपरितननरकावासेषु शीता, अधः स्तोकेषु शीतवेदनेषु उष्णा । पञ्चम्यां बहुषु शीतवेदनेषु उष्णा, स्तोकेषु उष्णवेदनेषु शीता । षष्ठसप्तम्योर्नारकानां योनिरुष्णैव । शीतयोनिकाणां ह्युष्णवेदनाऽत्यन्तदुःसहा, उष्णयोनिकानां तु शीतवेदनेति ||३|| उणिा य उकाए, संवुडजोणी इगिदिसुरनिरए । विगलासन्निसु वियडा, संवुडवियडा य गब्र्भमि ||४|| तेजः कायिकानामुष्णा योनिः । पुनः प्रकारान्तरेणाह - एकेन्द्रियाणां संवृता योनिः, स्पष्टमनुपलक्ष्यमाणत्वात् । सुराणां देवदूष्यान्तरोत्पादात्संवृता । नारकाणामुत्पत्तिस्थाननिष्कुटानां संवृतगवाक्ष कल्पत्वात्संवृता योनिः । विकला Jain Education international For Personal & Private Use Only ।।१९ ॥ www.jainelibrary.org
SR No.600198
Book TitleLoknalidwatrinshika
Original Sutra AuthorVijayjinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1993
Total Pages62
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy