Book Title: Loknalidwatrinshika
Author(s): Vijayjinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 17
________________ लोकनालि ।। १२ ।। चतुःखण्डश्रेणिर्लोकशिरःस्था ज्ञेया । अष्टाविंशतिखण्डप्रमाणा श्रेणीर्लोकस्याधस्ताज्ज्ञेया । षट्पञ्चाशत्प्रमाणाः द्वात्रिंशिका प्रतरखण्डुक श्रेणीस्तिर्यग्ज्ञेया । ऊर्ध्वलोके चतुष्कादयश्चतुष्कान्ताः । अधोलोके त्वष्टाविंशत्यादयश्चतुष्कान्तास्त्रिकाः षट्पञ्चाशत्प्रतरसदृशाङ्कगुणिताः पृथक् पृथग् मीलिताः सन्तः समदीर्घपृथुलोद्वेधाः खण्डुका ऊर्ध्वलोकेऽधोलोके ज्ञेयाः । अस्या भावना प्रागेवोक्तास्ति ।। २५ ।। अथ घनलोक करणोपायमाह - दाहिणपासि दुखंडा उड्ढं वामे ठविज्ज विवरीआ । नाडीसहिअतिरज्जू, पिहू जाया सत्त दीहुच्चे ||२६|| ऊर्ध्वलोके त्रसनाडीतो दक्षिणपार्श्वे द्व े खण्डे ये ते विपरीते कृत्वा वामे पार्श्वे स्थापय । अयं भावः-समे द्वे खण्डे दक्षिणपार्श्वादुत्पाट्य विपरीते कृत्वाऽधस्तनं खण्डमुपरि स्थाप्यते । उपरितनं खण्डमधः स्थाप्यते । नाडीसहितत्रिरज्जवः पृथुत्वे जाताः । दीर्घत्वे सप्तरज्ज्वः ॥ २६ ॥ हिट्ठा उ वामखंड, दाहिणपासे ठविज्ण विवरीअं । उवरिमतिरज्जुखंडं, वामे ठाणे अहो दिज्जा ||२७|| तु पुनरधस्तादधोलोके त्रसनाडीतो वामखण्डमुत्पाटय विपरीतं कृत्वा दक्षिणपार्श्वे स्थाप्य । तत उपरितनं त्रिरज्जुमानं खण्डं समुत्पाटय वामे पार्श्वे सन्धय ( न्धेहि ) | एतावता सर्वतः समत्वादेष घनलोको जातः । अधऊर्ध्व सप्तरज्जुप्रमाणः पूर्वापरयोर्दक्षिणोत्तरयोश्च सप्तरज्जुप्रमाणः सर्वत्र समो घनलोकः || २७ ।। इअ संवट्टणलोगो, बुद्धिकओ सत्तरज्जुमाणघणो । सगरज्जु अहिअ हिट्ठा, गिव्हिअ पासाइँ पूरिज्जा |२८| Jain Education national For Personal & Private Use Only ।। १२ ।। Minelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62