Book Title: Laghiyastrayadisangrah
Author(s): Manikchand Digambar Jain Granthamala Samiti
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 171
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० भट्टानन्तकीर्तिप्रणीता तथाभूतानामेव पुरुषाणामिंद्रियांतरेण ग्राह्या रूपादयो न भवतीति प्रसाध्यते अथान्यथाभूतानामित्यादिदूषणं नातिवर्तते । सर्वज्ञज्ञानस्य इंद्रियजत्वमभ्युपगम्यैतदुक्तं । यावता नैवास्माभिरक्षजत्वं सर्वज्ञज्ञानस्येष्यते । यद्येवं तर्हि प्रत्यक्षशद्ववाच्यत्वं न स्यात् । प्रतिगतमाश्रितमक्षं प्रत्यक्षमिति व्युत्पत्तेरिति चेत्स्यादेतद्यदि शब्दस्य व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्तं स्यात् । यावता शद्बस्य व्युत्पत्तिनिमित्तादन्यदेव प्रवृत्तिनिमित्तं । यथा गच्छतीति गौरिति गमनक्रियामा - श्रित्य व्युत्पादितस्य गोशद्वस्य गमनक्रियोपलक्षितं तदेकार्थसमवेतं गोत्वमन्यदेव गमनात् प्रवृत्तिनिमित्तं । अन्यथा गच्छंत्येव गौर्गौरित्युच्येत नान्या व्युत्पत्तिनिमित्ताभावात् । एवमक्षजत्वमाश्रित्य व्युत्पादितस्य प्रत्यक्षशद्वस्याक्षजत्वोपलक्षितं तदेकार्थसमवेतं वैशद्यं प्रवृत्तिनिमित्तं भवेत् । एवं यद्यक्षजत्वमंतरेणापि कचिद्वैशद्यमुपलब्धं स्यात् यथा गमनक्रियामतरेणापि गोत्वं यावताऽनक्षजे ज्ञाने नैव कदाचि - द्वैशद्यमुपलभ्यते यत्प्रत्यक्षशद्वस्य प्रवृत्तिनिमित्तं स्यादिति चेन्ननूपलभ्यते एवानक्षजेऽपि ज्ञाने वैशद्यं । यथा कामशोकभयोन्मादाद्युपप्लुतानां ज्ञाने । कामशोकभयोन्मादचैौरस्वमाद्युपप्लुताः । अभूतानपि पश्यंति पुरतोऽवस्थितानिव ॥ १ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226